|| श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः ||
वक्ष्येऽहं नव दुर्गायाः स्वरूपाण्यधुना क्रमात् ।
प्रथमा वन दुर्गा स्यात् शूलिन्याख्या द्वितीयिका ॥ १॥
तृतीया जातवेदास्तु शान्तिदुर्गा चतुर्थिका ।
पञ्चमी शबरी दुर्गा ज्वलद् दुर्गा च षष्ठिका ॥ २॥
सप्तमी लवणाभिख्या दीपदुर्गा तथाऽष्टमी ।
नवमी ह्यासुरी दुर्गा प्रोक्ता एता नवाम्बिकाः ॥ ३॥
पुरा भण्डमहायुद्धे ललिताम्बाऽट्टहासतः ।
आविर्भूता इमा देव्यः मध्वाद्यसुरभीकराः ॥ ४॥
स्मरणादर्चनात्तासां जपात् दुर्गाणि मानवाः ।
तरन्ति तरसा नान्यो ह्युपायोऽस्ति कलौ युगे ॥ ५॥
दुःखेन शत्रुभिर्गन्तुमशक्यत्वात् यतोऽम्बिका ।
दुर्गेति कथिता शम्भुं समरोद्युक्तमाश्रिता ॥ ६॥
दुर्गात् सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते ।
प्रपद्ये शरणं देवि चेत्याहाथर्वणी श्रुतिः ॥ ७॥
आक्रीडायां भवानी सा शम्भोः कोपे तु काळिका ।
जगतां पालने विष्णुः युद्धे दुर्गा शिवप्रिया ॥ ८॥
समष्टि व्यष्टि भेदेन द्विधा तन्मूर्तिरीरिता ।
समष्टिरेव सर्वत्र पूज्यते हि द्विजातिभिः ॥ ९॥
विख्याता सर्वदा दुर्गा महिषासुरमर्दिनी ।
समष्टिरूपिणी देवी नवदुर्गात्मिका शिवा ॥ १०॥
विन्ध्यदर्पविनाशार्थमगस्त्येन वने पुरा ।
या दुर्गा पूजिता तस्मात् वनदुर्गेति कीर्तिता ॥ ११॥
त्रिपुराणां महायुद्धे वहन्ती शूलमायुधम् ।
शम्भोः वामगता दुर्गा तस्मात् सा शूलिनी मता ॥ १२॥
जातवेदः स्वरूपा या गङ्गां नयति शाम्भवम् ।
वीर्यं तस्मात् जातवेदोदुर्गेति प्रथिता भुवि ॥ १३॥
ऋणरोगपिशाचादि सर्वोपद्रव नाशनात् ।
रुद्रकोपप्रशमनात् शान्ति दुर्गेति कीर्तिता ॥ १४॥
या पार्थस्यानुग्रहार्थं शबरात्मानमीश्वरम् ।
पुरा वने ह्यनुगता तस्मात्सा शबरी मता ॥ १५॥
रक्षार्थं शक्तिसेनास्ताः पुरा भण्डासुराहवे ।
अभिजज्वाल शिबिरं ज्वलद् दुर्गा ततो मता ॥ १६॥
लवणासुर संहृत्यै लक्ष्मणेन समर्चिता ।
या पुरा रामविनुता सा दुर्गा लवणाभिधा ॥ १७॥
हार्दान्धकारं या दुर्गा वारयन्त्याशु योगिनाम् ।
दीपवत्तिमिरं सा स्यात् दीपदुर्गा सुखप्रदा ॥ १८॥
असुरान् मोहयन्ती या पुराऽयच्छत् सुधारसम् ।
सुरेभ्यः साऽऽसुरी दुर्गा कीर्तिता सर्वसिद्धिदा ॥ १९॥
समष्टिदुर्गा
अरिशङ्खकृपाण खेट बाणान्सधनुश्शूलक तर्जनीर्दधाना ।
मम सा महिषोत्तमाङ्गसंस्था नवदुर्गासदृशी श्रियेऽस्तु दुर्गा ॥ २०॥
१. वनदुर्गाध्यानम् ।
सौवर्णाम्बुज मध्यगां त्रिनयनां सौदामिनी सन्निभां
शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् ।
ग्रैवेयाङ्गद हार कुण्डलधरामाखण्डलाद्यैः स्तुतां
ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ २१॥
२. शूलिनीदुर्गाध्यानम् ।
अध्यारूढां मृगेन्द्रं सजलजलधरश्यामळां हस्त पद्मैः
शूलं बाणं कृपाणीमरिजलजगदाचापपाशान्वहन्तीम् ।
चन्द्रोत्तंसां त्रिनेत्रां चतसृभिरसिना खेटकं बिभ्रतीभिः
कन्याभिः सेव्यमानां प्रतिभटभयदां शूलिनीं भावयामि ॥ २२॥
३. जातवेदोदुर्गाध्यानम् ।
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवाळखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रधरासिखेट विशिखान् पाशाङ्कुशौ तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ २३॥
४. शान्तिदुर्गाध्यानम् ।
रोगोपद्रव शत्रुभीति विविध क्रूराहि शूकोल्बणोद्-
दुष्टारिष्टपिशाचजा बहुविधास्ता आपदो ह्यामयाः ।
यद्ध्यानात्प्रशमं प्रयान्ति सहसा सा शान्तिदुर्गाऽवतात्
हस्ताश्लिष्टवरत्रिशूल कमलाभीतिर्मृगेन्द्रासना ॥ २४॥
५. शबरीदुर्गाध्यानम् ।
गुञ्जाफलाकल्पित हाररम्यां श्रुत्योः शिखण्डं शिखिनो वहन्तीम् ।
कोदण्डबाणौ दधतीं कराभ्यां कटिस्थवल्कां शबरीं स्मरामि ॥
६. ज्वलद्दुर्गाध्यानम् ।
ज्वालामालावलीढा ज्वलनशरधनुश्शङ्खचक्रासिखेटान्
शूलं सन्तर्जनीं या करसरसिरुहैस्सन्दधाना त्रिनेत्रा ।
और्वाग्निं सङ्किरन्ती रणभुवि दितिजान्नाशयन्ती परा सा
दुर्गा जाज्वल्यमाना भवतु मम सदा सिंहसंस्था पुरस्तात् ॥ २६॥
७. लवणदुर्गाध्यानम् ।
करकमल विराजच्चक्रशङ्खासिशूला
परिलसितकिरीटा पाटितानेकदैत्या ।
त्रिनयनलसिताङ्गी तिग्मरश्मिप्रकाशा
पवनसखनिभाङ्गी लावणी पातु दुर्गा ॥ २७॥
८. दीपदुर्गाध्यानम् ।
दीपान्तर्ज्वलितारविन्दसदृशा सिंहासनस्था शिवा
शूलेष्वासशरारि शङ्ख कमलाभीतीष्ट हस्तोज्ज्वला ।
सम्पूज्याऽमरलोक वासिभिरसावाखेलयन्ती मुदा
स्वाभादीप्तनिशा महेशरमणी दुर्गाम्बिका रक्षतात् ॥ २८॥
९. आसुरीदुर्गाध्यानम् ।
शरच्चन्द्रकान्तिर्वराभीतिशूलान् सृणिं हस्तपद्मैर्दधानाऽम्बुजस्था ।
विभूषाम्बराढ्याऽहियज्ञोपवीता मुदोऽथर्वपुत्री करोत्वासुरी नः ॥ २९॥
समष्टिस्तुतिः ।
नवीकृताकारधराऽपि याऽनवीकृताऽविकारापि विकाररूपिणी ।
विसर्गरूपाऽप्यविसर्गरक्षणोन्मुखी सदा रक्षतु सा नवात्मिका ॥ ३०॥
दुर्गे शूलिनि जातवेदसि महाशान्त्याह्वये शाबरि
ज्वालादुर्गवराभिधे लवणगे दीपाभिधे ह्यासुरि ।
एह्यम्बे पुरतो ममाद्य भयकृद्रोगारि पीडादिमान्
विध्वस्तान् कुरु देहि सौख्यमतुलं भक्तिं तथाऽव्याहताम् ॥ ३१॥
फलाशंसनम् ।
नवदुर्गास्वरूपानुसन्धायकमनुत्तमम् ।
इदं स्तोत्रवरं नित्यं यः पठेत् सर्वसिद्धिदम् ॥ ३२॥
त्रिकालं ह्येककालं वा सङ्कान्तावयने तथा ।
विषौ दर्शे पौर्णमास्यामष्टम्यां भौमवासरे ॥ ३३॥
शुक्रवारे चतुर्दश्यां रोहिण्यां वा विशेषतः ।
कृष्णाङ्गारचतुर्दश्यां भौमाश्विन्यां पठेदिदम् ॥ ३४॥
महामृत्युं च तरति महादुर्गाणि शीघ्रतः ।
निशीथिन्यां जपेदेतत् वाक्सिद्धिरपि लभ्यते ॥ ३५॥
सर्वान् कामानवाप्रोति सर्वसिद्धिञ्च विन्दति ।
अत्युत्पातभये जाते रोगोपद्रवसम्भवे ॥ ३६॥
ऋणे बन्धे च यो धीमान् नवदुर्गां हृदि स्मरन् ।
पठेदाशु सुखं याति महादेव्याः प्रसादतः ॥ ३७॥
गोपनीयमिदं स्तोत्रं नात्र कार्या विचारणा ।
नवदुर्गा महाविद्या नवधा ह्युद्धृताश्च ताः ॥ ३८॥
जपित्वाऽन्ते पठेदेतत् स्तोत्रं तस्याणिमादयः ।
वशं यान्ति न सन्देहो नवदुर्गा प्रसीदति ॥ ३९॥
एवं यो हृदि भावयन् स्तुतिमिमां सङ्कीर्तयन् प्रत्यहं
मन्त्राणां नवकं नवाकृतिधरां दुर्गामुपास्ते शिवाम् ।
संयात्याशु मनो विचिन्तितफलं सन्तानसत्सम्पदः
कान्ताभूधनधान्यवर्गमतुलां पुष्टिं च निर्वैरताम् ॥ ४०॥
(अथर्वण रहस्ये श्री दक्षिणामूर्तिसंहितायां विद्याम्नाय कल्पतः)
इति श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः समाप्ता ।
Read in More Languages:- sanskritनवदुर्गास्तुतिः
- sanskritदुर्गाचन्द्रकलास्तुतिः
- hindiश्री दुर्गा नक्षत्र मालिका स्तुति
- englishShri Durga Maa Stuti
- hindiश्री दुर्गा माता स्तुति
- teluguశ్రీ దుర్గా నక్షత్ర మాలికా స్తుతి
- kannadaಶ್ರೀ ದುರ್ಗಾ ನಕ್ಷತ್ರ ಮಾಲಿಕಾ ಸ್ತುತಿ
- gujaratiશ્રી દુર્ગા નક્ષત્ર માલિકા સ્તુતિ
- sanskritश्री दुर्गा नक्षत्र मालिका स्तुति
- sanskritश्री दुर्गा नक्षत्र मालिका स्तुति
- punjabiਸ਼੍ਰੀ ਦੁਰ੍ਗਾ ਨਕ੍ਸ਼ਤ੍ਰ ਮਾਲਿਕਾ ਸ੍ਤੁਤਿ
- odiaଶ୍ରୀ ଦୁର୍ଗା ନକ୍ଷତ୍ର ମାଲିକା ସ୍ତୁତି
- bengaliশ্রী দুর্গা নক্ষত্র মালিকা স্তুতি
Found a Mistake or Error? Report it Now