Misc

श्रीनवनीतप्रियाष्टकम्

Navanitapriyashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीनवनीतप्रियाष्टकम् ||

अलकावृतलसदलिके विरचितकस्तूरिकातिलके ।
चपलयशोदाबाले शोभितभाले मतिर्मेऽस्तु ॥ १॥

मुखरितनूपुरचरणे कटिबद्धक्षुद्रघण्टिकावरणे ।
द्वीपिकरजकृतभूषणभूषितहृदये मतिर्मेऽस्तु ॥ २॥

करधृतनवनवनीते हितकृतजननीविभीषिकाभिते ।
रतिमुद्वहताच्चेतो गोपीभिर्वश्यतां नीते ॥ ३॥

बालदशामतिमुग्धे चोरितदुग्धे व्रजाङ्गनाभवनात् ।
तदुपालम्भवचोभयविभ्रमनयने मतिर्मेऽस्तु ॥ ४॥

व्रजकर्दमलिप्ताङ्गे स्वरूपसुषमाजितानङ्गे ।
कृतनन्दाङ्गणरिङ्गण विविधविहारे मतिर्मेऽस्तु ॥ ५॥

करवरधृतलघुलकुटे विचित्रमायूरचन्द्रिकामुकुटे ।
नासागतमुक्तामणिजटितविभूषे मतिर्मेऽस्तु ॥ ६॥

अभिनन्दनकृतनृत्ये विरचितनिजगोपिकाकृत्ये ।
आनन्दितनिजभृत्ये प्रहसनमुदिते मतिर्मेऽस्तु ॥ ७॥

कामादपि कमनीये नमनीये ब्रह्मरुद्राद्यैः ।
निःसाधवभजनीये भावतनौ मे मतिर्भूयात् ॥ ८॥

इति श्रीहरिदासविरचितं श्रीनवनीतप्रियाष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीनवनीतप्रियाष्टकम् PDF

श्रीनवनीतप्रियाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App