Download HinduNidhi App
Misc

नवाष्टकम्

Navashtakam Sanskrit

MiscAshtakam (अष्टकम निधि)संस्कृत
Share This

|| नवाष्टकम् ||

गौरीं गोष्ठवनेश्वरीं गिरिधरप्रानाधिकप्रेयसीं
स्वीयप्राणपरार्धपुष्पपटलीनिर्मञ्छ्यतत्पद्धतिम् ।
प्रेम्णा प्रानवयस्यया ललितया संलालितां नर्मभिः
सिक्तां सुष्ठु विशाखया भज मनो राधामगाधां रसैः ॥

स्वीयप्रेष्ठसरोवरान्तिकवलत्कुञ्जान्तरे सौरभो-
त्फुल्लत्पुष्पमरन्दलुब्धमधुपश्रेणीध्वनिभ्राजिते ।
माद्यन्मन्मथराज्यकार्यमसकृद्सम्भालयन्तीं स्मरा-
मात्यश्रीहरिणा समं भज मनो राधामगाधां रसैः ॥

कृष्णापङ्गतरङ्गतुङ्गिततरानङ्गासुरङ्गां गिरं
भङ्ग्या लङ्गिमसङ्गरे विदधतीं भङ्गं नु तद्रङ्गिणः ।
फुल्लत्स्मेरसखीनिकायनिहितस्वाशीःसुधास्वादन
लब्धोन्मादधुरोद्धुरां भज मनो राधामगाधां रसैः ॥

जित्वा पाशककेलिसङ्गरतरे निर्वादबिम्बाधरं
स्मित्वा द्विः पणितं धयत्यघहरे सानन्दगर्वोद्धुरे ।
ईषाछोणदृगन्तकोणमुदयद्रोमञ्चकम्पस्मितं
निघ्नन्तीं कमलेन तं भज मनो राधामगाधां रसैः ॥

अंसे न्यस्य करं परं बकरिपोर्बाढं सुसख्योन्मदां
पश्यन्तीं नवकाननश्रियमिमामुद्यद्वसन्तोद्भवाम् ।
प्रीत्या तत्र विशाखया किशलयं नव्यं विकीर्णं प्रिय-
श्रोत्रे द्राग्दधतीं मुदा भज मनो राधामगाधां रसैः ॥

मिथ्यास्वापमनल्पपुष्पशयने गोवर्धनाद्रेर्गुहा-
मध्ये प्राग्दधतो हरेर्मुरलिकां हृत्वा हरन्तीं स्रजम् ।
स्मित्वा तेन गृहीतकण्ठनिकटां भीत्यापसारोत्सुकां
हस्ताभ्यां दमितस्तनीं भज मनो राधामगाधां रसैः ॥

तूर्णं गाः पुरतो विधाय सखिभिः पूर्णं विशन्तं व्रजे
घूर्णद्यौवतकाङ्क्षिताक्षिनटनैः पश्यन्तमस्या मुखम् ।
श्यामं श्यामदृगन्तविभ्रमभरैरान्दोलयन्तीतरां
पद्माम्लानिकरोदयां भज मनो राधामगाधां रसैः ॥

प्रोद्यत्कान्तिभरेण बल्लववधूताराः परार्धात्पराः
कुर्वाणां मलिनः सदोज्ज्वलरसे रासे लसन्तीरपि ।
गोष्ठारण्यवरेण्यधन्यगगने गत्यानुराधाश्रितां
गोविन्देन्दुविराजितां भज मनो राधामगाधां रसैः ॥

प्रीत्या सुष्ठु नवाष्टकं पटुमतिर्भूमौ निपत्य स्फुटं
काक्वा गद्गदनिस्वनेन नियतं पूर्णं पठेद्यः कृती ।
घूर्णन्मत्तमुकुन्दभृङ्गविलसद्राधासुधावल्लरीं
सेवोद्रेकरसेण गोष्ठविपिने प्रेम्णा स तां सिञ्चति ॥

इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां नवाष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download नवाष्टकम् PDF

नवाष्टकम् PDF

Leave a Comment