Misc

श्रीनृसिंहसरस्वतिस्तोत्रम्

Nrrisimhasarasvatistotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीनृसिंहसरस्वतिस्तोत्रम् ||

(शार्दूलविक्रीडितवृत्तम्)
सर्वप्राणिशुभात्मकं श्रुतिनुतं दिव्यं पदं पावनं
अज्ञानान्धदृगार्तमूढजनताभास्वत्प्रदीपाननम् ।
भक्तानन्तशुभेप्सितार्थफलदं राराजमानं गुरुं
भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ १॥

ब्रह्माविष्णुमहेशरूपममलं श्रीदत्तनामाङ्कितं
सर्वप्राणिविजीवनं निरवधिं सर्वान्तरज्योतिषम् ।
स्मृत्यादिश्रुतियुक्तिभिः परिचितं स्वानन्दसूर्यं गुरुं
भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ २॥

संसाराम्बुधिमज्जनार्दितनरत्राणक्रियातत्परं
मायौद्धत्यविलापकामृतगिरं सर्वज्ञमीशं गुरुम् ।
मायासृष्टिविकारशून्यममलं ब्रह्माभयं शाश्वतं
भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ ३॥

नानाचित्रचरित्रदिव्यकुसुमामोदान्न्विताङ्गप्रभुं
नानाभक्तगणालिसेवितपदद्वन्द्वाम्बुजं निर्मलम् ।
सर्वप्राणिगुहाशयं निरवधिं भक्ताब्धिचन्द्रं गुरुं
भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ ४॥

मोक्षानन्दसुधामृतामरवपुः संन्यासिभिः संस्तुतं
बोधप्राणमुनिन्द्रसेवितपदं दत्ताभयं पावनम् ।
काषायाम्बरदण्डमण्डिततनुं वेदान्तवेद्यं गुरुं
भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ ५॥

इति श्रीसमर्थ रामदासानुगृहीत रामपदकञ्जभृङ्गायमान
श्रीमत्परमहंस परिव्राजकाचार्य सद्गुरु भगवता
श्री श्रीधरस्वामिना विरचितं श्रीनृसिंहसरस्वतिस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीनृसिंहसरस्वतिस्तोत्रम् PDF

श्रीनृसिंहसरस्वतिस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App