Misc

श्रीमन् न्यायसुधास्तोत्रम्

Nyayasudhastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीमन् न्यायसुधास्तोत्रम् ||

यदु तापसलभ्यमनन्तभवैस्दुतो परतत्त्वमिहैकपदात् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ १॥

विहितं क्रियते ननु यस्य कृते स च भक्तिगुणो यदिहैकपदात् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ २॥

वनवासमुखं यदवाप्तिफलं तदनारतमत्र हरिस्मरणम् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ३॥

निगमैरविभाव्यमिदं वसु यत् सुगमं पदमेकपदादपि तत् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ४॥

यदलभ्यमनेकभवैः स्वगुरोः सुपदं स्वपदं तदिहैकपदात् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ५॥

गुरुपादसरोजरतिं कुरुते हरिपादविनम्रसुधीः स्वफलम् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ६॥

उदयादपगच्छति गूढतमः प्रतिपक्षकृतं खलु यत्सुकृतेः ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ७॥

दशमान्त्यपतिः सदनं न कदाऽप्यथ मुञ्चति यत्स्वयमेव रसात् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ८॥

इति श्रीमादनूरुविष्णुतीर्थविरचितं श्रीन्यायसुधास्तोत्रं सम्पूर्णम् ।
॥ श्रीकृष्णार्पणमस्तु ॥

Found a Mistake or Error? Report it Now

Download श्रीमन् न्यायसुधास्तोत्रम् PDF

श्रीमन् न्यायसुधास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App