श्रीमन् न्यायसुधास्तोत्रम् PDF संस्कृत
Download PDF of Nyayasudhastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीमन् न्यायसुधास्तोत्रम् संस्कृत Lyrics
|| श्रीमन् न्यायसुधास्तोत्रम् ||
यदु तापसलभ्यमनन्तभवैस्दुतो परतत्त्वमिहैकपदात् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ १॥
विहितं क्रियते ननु यस्य कृते स च भक्तिगुणो यदिहैकपदात् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ २॥
वनवासमुखं यदवाप्तिफलं तदनारतमत्र हरिस्मरणम् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ३॥
निगमैरविभाव्यमिदं वसु यत् सुगमं पदमेकपदादपि तत् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ४॥
यदलभ्यमनेकभवैः स्वगुरोः सुपदं स्वपदं तदिहैकपदात् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ५॥
गुरुपादसरोजरतिं कुरुते हरिपादविनम्रसुधीः स्वफलम् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ६॥
उदयादपगच्छति गूढतमः प्रतिपक्षकृतं खलु यत्सुकृतेः ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ७॥
दशमान्त्यपतिः सदनं न कदाऽप्यथ मुञ्चति यत्स्वयमेव रसात् ।
जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ८॥
इति श्रीमादनूरुविष्णुतीर्थविरचितं श्रीन्यायसुधास्तोत्रं सम्पूर्णम् ।
॥ श्रीकृष्णार्पणमस्तु ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमन् न्यायसुधास्तोत्रम्
READ
श्रीमन् न्यायसुधास्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
