Misc

ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम्

Panchamakarastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम् ||

पार्वत्युवाच
देवदेव जगन्नाथ! कृपाकर! मयि प्रभो!
आगमोक्त-मकारांश्च ज्ञानमार्गेण ब्रूहि मे ॥ १॥

ईश्वर उवाच
कलाः सप्तदश प्रोक्ता अमृतं स्राव्यते शशी ।
प्रथमा सा विजानीयादितरे मद्यपायिनः ॥ २॥

कर्माकर्मपशून् हत्वा ज्ञानखड्गेन चैव हि ।
द्वितीयं विन्दते येन इतरे मांसभक्षकाः ॥ ३॥

मनोमीनं तृतीयं च हत्वा सङ्कल्प-कल्पनाः ।
स्वरूपाकार वृत्तिश्च शुद्धं मीनं तदुच्यते ॥ ४॥

चतुर्थं भक्ष्यभोज्यं न भक्ष्यमिन्द्रिय-निग्रहम् ।
सा चतुर्थी विजानीयादितरे भ्रष्टकारकाः ॥ ५॥

हंसः सोऽहं शिवः शक्तिर्द्राव आनन्दनिर्मलाः ।
विज्ञेया पञ्चमीतीदमितरे तिर्यगामिनेः ॥ ६॥

स द्रावश्चक्षुः-पात्रेण पूज्यते यत्र उन्मनी ।
दिद्युल्लेखाशिवैकेमां साध्यन्ते दैवसाधकाः ॥ ७॥

पूजकस्तन्मयानन्दः पूज्य-पूजकवर्जितः ।
स्वसंवेद्य-महानन्दस्तन्मयं पूज्यते सदा ॥ ८॥

इति श्रीरुद्रयामले उमामहेश्वरसंवादे पञ्चमकारस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम् PDF

ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App