ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम् PDF संस्कृत
Download PDF of Panchamakarastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम् संस्कृत Lyrics
|| ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम् ||
पार्वत्युवाच
देवदेव जगन्नाथ! कृपाकर! मयि प्रभो!
आगमोक्त-मकारांश्च ज्ञानमार्गेण ब्रूहि मे ॥ १॥
ईश्वर उवाच
कलाः सप्तदश प्रोक्ता अमृतं स्राव्यते शशी ।
प्रथमा सा विजानीयादितरे मद्यपायिनः ॥ २॥
कर्माकर्मपशून् हत्वा ज्ञानखड्गेन चैव हि ।
द्वितीयं विन्दते येन इतरे मांसभक्षकाः ॥ ३॥
मनोमीनं तृतीयं च हत्वा सङ्कल्प-कल्पनाः ।
स्वरूपाकार वृत्तिश्च शुद्धं मीनं तदुच्यते ॥ ४॥
चतुर्थं भक्ष्यभोज्यं न भक्ष्यमिन्द्रिय-निग्रहम् ।
सा चतुर्थी विजानीयादितरे भ्रष्टकारकाः ॥ ५॥
हंसः सोऽहं शिवः शक्तिर्द्राव आनन्दनिर्मलाः ।
विज्ञेया पञ्चमीतीदमितरे तिर्यगामिनेः ॥ ६॥
स द्रावश्चक्षुः-पात्रेण पूज्यते यत्र उन्मनी ।
दिद्युल्लेखाशिवैकेमां साध्यन्ते दैवसाधकाः ॥ ७॥
पूजकस्तन्मयानन्दः पूज्य-पूजकवर्जितः ।
स्वसंवेद्य-महानन्दस्तन्मयं पूज्यते सदा ॥ ८॥
इति श्रीरुद्रयामले उमामहेश्वरसंवादे पञ्चमकारस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowज्ञानमार्गोक्त पञ्चमकारस्तोत्रम्
READ
ज्ञानमार्गोक्त पञ्चमकारस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
