|| श्रीपरमगुरुप्रभुवराष्टकम् ||
प्रपन्नजननीवृति ज्वलति संसृतिर्ज्वालया
यदीयनयनोदितातुलकृपातिवृष्टिर्द्रुतम् ।
विधूय दवथुं करोत्यमलभक्तिवाप्यौचितीं
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ १॥
यदास्यकमलोदिता व्रजभुवो महिम्नां ततिः
श्रुता बत विसर्जयेत्पतिकलत्रपुत्रालयान् ।
कलिन्दतनयातटी वनकुटीरवासं नयेत्
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ २॥
व्रजाम्बुजदृशां कथं भवति भावभूमा कथं
भवेदनुगतिः कथं किमिह साधनं कोऽधिकृत् ।
इति स्फुटमवैति को यदुपदेशभाग्यं विना
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ३॥
तपस्वियतिकर्मिणां सदसि तार्किकानां तथा
प्रतिस्वमतवैदुषीप्रकटनोढगर्वश्रियाम् ।
विराजति रविर्यथा तमसि यः स्वभक्त्योजसा
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ४॥
किमद्य परिधास्यते किमथ भोज्यते राधया
समं मदनमोहनो मदनकोटिनिमज्जितः ।
इतीष्टवरिवस्यया नयति योऽष्टयामान् सदा
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ५॥
मृदङ्गकरतालिकामधुरकीर्तने नर्तयन्
जनान् सुकृतिनो नटन् स्वयमपि प्रमोदाम्बुधौ ।
निमज्जति दृगम्बुभिःपुलकसङ्कुलःस्नाति यः
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ६॥
समं भगवतो जनैः प्रवरभक्तिशास्त्रोदितं
रसं सुरसयन्मुहुः परिजनांश्च यः स्वादयन् ।
स्वशिष्यशतवेष्टितो जयति चक्रवर्त्याख्यया
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ७॥
स्थितिः सुरसरित्तटे मदनमोहनो जीवनं
स्पृहा रसिकसङ्गमे चतुरिमा जनोद्धारणे ।
घृणा विषयिषु क्षमा झटिति यस्य चानुव्रजे
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ८॥
इदं प्रभुवराष्टकं पठति यस्तदीयो जन-
स्तदङ्घ्रिकमलेष्टधीः स खलु रङ्गवत्प्रेमभाक् ।
विलासभृतमञ्जुल्याल्यतिकृपैकपात्रीभवन्
निकुञ्जनिलयाधिपावचिरमेव तौ सेवते ॥ ९॥
इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं
श्रीश्रीपरमगुरुप्रभुवराष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now