|| श्रीपरमेश्वराष्टकम् ||
पङ्कजासनपद्मलोचनसद्गुरोऽतुलपावन
वैभवाश्रितपारिजातक पाहि मां परमेश्वर ।
कामितार्थदपादपङ्कज कालकाल जगद्गुरो
कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ १॥
कारणत्रयमूल बालशशाङ्कखण्डशिरोमणे
कार्मुकीकृतशीतगुम्फधराधरेन्द्र जगन्मणे ।
लोचनीकृतशीतरश्मि कृपीटयोनि नभोमणे
कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ २॥
कैटभारिशिलीमुखातुलकाश्यपीरथ धूर्जटे
कल्पितावस कामितार्थप्रदान गौरनदीतटे ।
व्यालभूषणजालशोभित व्याघ्रचर्मलसत्कटे
कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ ३॥
वीतिहोत्रसुतीर्थतीरविहार विश्वधुरन्धर
वीरवर्य विरिञ्चिसन्नुत वृक्षरूपकलेवर ।
नीतिपेशलमानसाम्बुजनित्यवास महाप्रभो
कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ ४॥
विध्यदृष्टसुशीर्षशोभित विष्ण्वदृश्यपदाम्बुज
निर्जरद्रुमपुष्पजालसुगन्धितस्वदिगन्तरे ।
मित्रवह्निशशीमरुज्जलयज्वखावनिकाकृते
कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ ५॥
कालनीरदनीलकन्धर शूलपाशधराद्य मां
पालयाखिलवैभवाजकपालभृत्करपङ्कज ।
कालगर्वहरान्धकान्तक कृत्तिवासक धूर्जटे
कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ ६॥
कुन्दभूरुहमूलमृत् तव जन्ममृत्युजराधिहा
कोटिजन्मकृताघसंहृतिदीक्षिता भवभेषजी ।
तादृगद्भुतकुन्दभूरुहदर्शनादपवर्गकृत्
कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ ७॥
नामरूपविहीन निर्गुण निष्कलङ्क महामहः
प्राणनाथ परात्पराच्युत कारणत्रयकारण ।
नादबिन्दुकलास्वरूप सहस्रपत्रनिकेतन
कुन्दभूरुहमन्दिरेश्वर सन्ददस्व मदीप्सितम् ॥ ८॥
पर्वतेन्द्रसुताकृतं परमेश्वराष्टकमद्भुतं
पावनं परमार्थदं परमात्मनायकसन्निधौ ।
भक्तियुक्तमनाः पठेद्यदि दुर्लभं परमं पदं
प्राप्य निर्वृतिमेत्य शाश्वत एव तत्र वसेदसौ ॥ ९॥
इति पार्वतीकृतं श्रीपरमेश्वराष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now