Misc

परिवृढाष्टकम्

Parivrridhashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| परिवृढाष्टकम् ||

कलिन्दोद्भूतायास्तटमनुचरन्ती पशुपजां
रहस्येकां दृष्ट्वा नवसुभगवक्षोजयुगलाम् ।
दृढं नीवीग्रन्धि श्लथयति मृगाक्ष्या हटतरं
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ १॥

समायाते स्वस्मिन्सुरनिलयसाम्यं गतवति
व्रजे वैशिष्ट्यं यो निजपदगताब्जाङ्कुशयवैः ।
अकार्षीत्तस्मिन्मे यदुकुलसमुद्भासितमणौ
रतिप्रादुर्भावो भवतु सततं श्रीपरिवढे ॥ २॥

हिहीहीहीकारान् प्रतिपशु वने कुर्वति सदा
नमद्भह्मेशेन्द्रप्रभृतिषु च मौनं धृतवति ।
मृगाक्षीभिः स्वेक्षानवकुवलयैरर्चितपदे
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ३॥

सकृत्स्मृत्वा कुम्भी यमिह परमं लोकमगम-
च्चिरं ध्यात्वा धाता समाधिगतवान्यं न तपसा ।
विभौ तस्मिन्मह्यं सजलजलदालीनिभतनौ
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ४॥

परा काष्ठा प्रेम्णां पशुपतरुणीनां क्षितिभुजां
सुदृक्तानां त्रासास्पदमखिलभाग्यं यदुपतेः ।
विभुर्यस्तस्मिन्मे दरविकचजम्बालजमुखे
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ५॥

दरप्रादुर्भूतद्विजगणमहः पूरितवने
चरं कुह्वां राकारुचिरतरशोभाधिकरुचि ।
हरिर्यस्तस्मिंस्त्रीगणपरिवृतो नृत्यति सदा
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ६॥

स्फुरद्गुञ्जापुञ्जाकलितनिजपादाब्जविलुठत्-
स्रजि श्यामाकामास्पदपदयुगे मेचकरुचि ।
वराङ्गे श‍ृङ्गारं दधति शिखिनां पिच्छपटलैः
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ७॥

दुरन्तं दुःखाब्धिं हसितसुधया शोषयति यो
यदास्येन्दुर्गोपीनयननलिनानन्दकरणम् ।
अनङ्गः साङ्गत्वं व्रजति मम तस्मिन् मुररिपौ
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ८॥

इदं यः स्तोत्रं श्रीपरिवृढसमीपे पठति वा
श‍ृणोति श्रद्धावान् रतिपतिपितुः पादयुगले ।
रतिं प्रेप्सुः शश्वत्कुवलयदलश्यामलतनौ
रतिः प्रादुर्भूता भवति न चिरात्तस्य सुदृढा ॥ ९॥

इति श्रीवल्लभाचार्यकृतं श्रीपरिवृढाष्टकं समाप्तम् ।

Found a Mistake or Error? Report it Now

Download परिवृढाष्टकम् PDF

परिवृढाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App