Misc

वीरककृता पार्वतीस्तुतिः

Parvatistutiviraka Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| वीरककृता पार्वतीस्तुतिः ||

वीरक उवाच ।
नतसुरासुरमौलिमिलन्मणिप्रचयकान्ति कराल नखाङ्किते ।
नगसुते! शरणागतवत्सले! तव नतोऽस्मि नतार्तिविनाशिनि ॥ १॥

तपनमण्डलमण्डितकन्धरे ! पृथुसुवर्णसुवर्णनगद्युते ।
विषभुजङ्गनिषङ्गविभूषिते ! गिरिसुते ! भवतीमहमाश्रये ॥ २॥

जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा ।
जगति कां च न वाङ्छति शङ्करो भुवनधृत्तनये ! भवतीं यथा ॥ ३॥

विमलयोग विनिर्मित दुर्जय स्वतनु तुल्यमहेश्वर मण्डले ।
विदलितान्धक बान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता ॥ ४॥

सितसटापटलोद्धत कन्धरा भरमहा मृगराज रथस्थिता ।
विमलशक्तिमुखानलपिङ्गला यतभुजौघ विपिष्टमहासुरा ॥ ५॥

निगदिता भुवनैरिति चण्डिका जननि ! शुम्भ निशुम्भ निषूदनी ।
प्रणत चिन्तित दानव दानव प्रमथनैकरतिस्तरसा भुवि ॥ ६॥

वियति वायुपथे ज्वलनोज्ज्वलेऽवनितले तव देवि! च यद्वपुः ।
तदजितेऽप्रतिमे प्रणमाम्यहं भुवन भाविनि! ते भववल्लभे ॥ ७॥

जलधयो ललितोद्धत वीचयो हुतवहद्युतयश्च चराचरम् ।
फणसहस्रभृतश्च भुजङ्गमा स्त्वदभिधास्यति मय्यभयङ्कराः ॥ ८॥

भगवति! स्थिरभक्तजनाश्रये! प्रतिगतो भवती चरणाश्रयम् ।
करणजातमिहास्तु ममाचलं नुतिलवाप्तिफलाशयहेतुतः ॥ ९॥

प्रशममेहि ममात्मज वत्सले ! तव नमोऽस्तु ! जगत्त्रयसंश्रये ! ।
त्वयि ममास्तु मतिः सततं शिवे शरणगोऽस्मि नतोऽस्मि नमोऽस्तु ते ॥ १०॥

इति मत्स्यपुराणान्तर्गता वीरककृता पार्वतीस्तुतिः समाप्ता ।

Found a Mistake or Error? Report it Now

Download वीरककृता पार्वतीस्तुतिः PDF

वीरककृता पार्वतीस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App