वीरककृता पार्वतीस्तुतिः PDF संस्कृत
Download PDF of Parvatistutiviraka Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
वीरककृता पार्वतीस्तुतिः संस्कृत Lyrics
|| वीरककृता पार्वतीस्तुतिः ||
वीरक उवाच ।
नतसुरासुरमौलिमिलन्मणिप्रचयकान्ति कराल नखाङ्किते ।
नगसुते! शरणागतवत्सले! तव नतोऽस्मि नतार्तिविनाशिनि ॥ १॥
तपनमण्डलमण्डितकन्धरे ! पृथुसुवर्णसुवर्णनगद्युते ।
विषभुजङ्गनिषङ्गविभूषिते ! गिरिसुते ! भवतीमहमाश्रये ॥ २॥
जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा ।
जगति कां च न वाङ्छति शङ्करो भुवनधृत्तनये ! भवतीं यथा ॥ ३॥
विमलयोग विनिर्मित दुर्जय स्वतनु तुल्यमहेश्वर मण्डले ।
विदलितान्धक बान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता ॥ ४॥
सितसटापटलोद्धत कन्धरा भरमहा मृगराज रथस्थिता ।
विमलशक्तिमुखानलपिङ्गला यतभुजौघ विपिष्टमहासुरा ॥ ५॥
निगदिता भुवनैरिति चण्डिका जननि ! शुम्भ निशुम्भ निषूदनी ।
प्रणत चिन्तित दानव दानव प्रमथनैकरतिस्तरसा भुवि ॥ ६॥
वियति वायुपथे ज्वलनोज्ज्वलेऽवनितले तव देवि! च यद्वपुः ।
तदजितेऽप्रतिमे प्रणमाम्यहं भुवन भाविनि! ते भववल्लभे ॥ ७॥
जलधयो ललितोद्धत वीचयो हुतवहद्युतयश्च चराचरम् ।
फणसहस्रभृतश्च भुजङ्गमा स्त्वदभिधास्यति मय्यभयङ्कराः ॥ ८॥
भगवति! स्थिरभक्तजनाश्रये! प्रतिगतो भवती चरणाश्रयम् ।
करणजातमिहास्तु ममाचलं नुतिलवाप्तिफलाशयहेतुतः ॥ ९॥
प्रशममेहि ममात्मज वत्सले ! तव नमोऽस्तु ! जगत्त्रयसंश्रये ! ।
त्वयि ममास्तु मतिः सततं शिवे शरणगोऽस्मि नतोऽस्मि नमोऽस्तु ते ॥ १०॥
इति मत्स्यपुराणान्तर्गता वीरककृता पार्वतीस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowवीरककृता पार्वतीस्तुतिः
READ
वीरककृता पार्वतीस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
