|| पितृशर्मकृतं पार्वतीस्तोत्रम् ६ ||
पितृशर्मोवाच ।
नमः प्रकृत्यै सर्वायै कैवल्यायै नमो नमः ।
त्रिगुणैक्यस्वरूपायै तुरीयायै नमो नमः ॥ १०॥
महत्तत्त्वजनन्यै च द्वन्न्द्वकर्त्र्यै नमो नमः ।
ब्रह्ममातर्नमस्तुभ्यं साहङ्कारपितामहि ॥ ११॥
पृथग्गुणायै शुद्धायै नमो मातर्नमो नमः ।
विद्यायै शुद्धसत्त्वायै लक्ष्म्यै सत्त्वरजोमयि ॥ १२॥
नमो मातरविद्यायै ततः शुद्ध्यै नमो नमः ।
काल्यै सत्त्वतमोभूत्यै नमो मातर्नमो नमः ॥ १३॥
स्त्रियै शुद्धरजोमूर्त्यै नमस्त्रैलोक्यवासिनि ।
नमो रजस्तमोमूर्त्यै दुर्गायै च नमो नमः ॥ १४॥
इति भविष्यपुराणे प्रतिसर्गपर्वणि द्वतीयखण्डे त्रिंशाध्यायान्तर्गतं
पितृशर्मकृतं पार्वतीस्तोत्रं समाप्तम् ।
Found a Mistake or Error? Report it Now