प्रद्युम्नकृतं पार्वतीस्तोत्रम् PDF संस्कृत
Download PDF of Pradyumnakrritamparvatistotram Sanskrit
Parvati Ji ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
प्रद्युम्नकृतं पार्वतीस्तोत्रम् संस्कृत Lyrics
|| प्रद्युम्नकृतं पार्वतीस्तोत्रम् ||
प्रद्युम्न उवाच ।
ॐ नमः कात्यायन्यै गुहस्य जनन्यै नमः ।
नमस्त्रैलोक्यमायायै कात्यायन्यै नमो नमः ॥ १॥
नमः शत्रुविनाशिन्यै नमो गार्ग्यै गिरीशये ।
नमस्ये शुम्भहननीं निशुम्भहृदिदारणीम् ॥ २॥
कालरात्रिं नमस्येऽहं कुमारीं चापि नित्यशः ।
कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः ॥ ३॥
विन्ध्यवासिनीं दुर्गघ्नीं रणदुर्गां रणप्रियाम् ।
नमस्यामि महादेवीं जयां च विजयां तथा ॥ ४॥
अपराजितां नमस्येऽहमजितां शत्रुतापनीम् ।
घण्टाहस्तां नमस्यामि घण्टामालाकुलां तथा ॥ ५॥
त्रिशूलिनीं नमस्यामि महिषासुरघातिनीम् ।
सिंहवाहां नमस्यामि सिंहप्रवरकेतनाम् ॥ ६॥
एकानंशां(?) नमस्यामि गायत्रीं यज्ञसत्क्रियाम् ।
सावित्रीं चापि विप्राणां नमस्येऽहं कृताञ्जलिः ।
रक्ष मां देवि सततं संग्रामे विजयं कुरु ॥ ७॥
इति हरिवंशान्तर्गतं प्रद्युम्नकृतं पार्वतीस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowप्रद्युम्नकृतं पार्वतीस्तोत्रम्
READ
प्रद्युम्नकृतं पार्वतीस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
