
श्री राधाकुण्डाष्टकम् PDF हिन्दी
Download PDF of Radhakund Ashtakam Sanskrit
Shri Radha ✦ Ashtakam (अष्टकम संग्रह) ✦ हिन्दी
श्री राधाकुण्डाष्टकम् हिन्दी Lyrics
|| श्री राधाकुण्डाष्टकम् ||
वृषभदनुजनाशान्नर्मधर्मोक्तिरङ्गै-
र्निखिलनिजसखीभिर्यत्स्वहस्तेन पूर्णम् ।
प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदै-
स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥
व्रजभुवि मुरशत्रोः प्रेयसीनां निकामै-
रसुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् ।
जनयति हृदि भूमौ स्नातुरुच्चैर्प्रियं य-
त्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥
अघरिपुरपि यत्नादत्र देव्याः प्रसाद-
प्रसरकृतकताक्षप्राप्तिकामः प्रकामम् ।
अनुसरति यदुचाइः स्नानसेवानुबन्धै-
स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥
व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं
व्रजमधुरकिशोरीमौलिरत्नप्रियेव ।
परिचितमपि नाम्ना या च तेनैव तस्या-
स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥
अपि जन इह कश्चिद्यस्य सेवाप्रसादैः
प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः ।
सपदि किल मदीशादास्यपुष्पप्रशस्या
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥
तटमधुरनिकुञ्जः कॢप्तनामान उच्चै-
र्निजपरिजनवर्गैः संविभज्याश्रितस्तैः ।
मधुकररुतरम्या यस्य राजन्ति काम्या-
स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥
तटभुवि वरवेद्यां यस्य नर्मातिहृद्यां
मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या ।
प्रठयति मिथ ईशा प्राणसख्यालिभिः सा
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥
अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घै-
र्वरसरसिजगन्धैर्हारिवारिप्रपूर्णे ।
विहरत इह यस्मिन्दम्पती तौ प्रमत्तौ
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥
अविकलमति देव्याश्चारु कुण्डाष्टकं यः
परिपठति तदीयोल्लासिदास्यार्पितात्मा ।
अचिरमिह शरीरे दर्शयत्येव तस्मै
मधुरिपुरतिमोदैः श्लिष्यमाणां प्रियां ताम् ॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां राधाकुण्डाष्टकं श्रीसम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री राधाकुण्डाष्टकम्

READ
श्री राधाकुण्डाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
