Download HinduNidhi App
Shri Radha

श्री राधाकुण्डाष्टकम्

Radhakund Ashtakam Sanskrit

Shri RadhaAshtakam (अष्टकम निधि)हिन्दी
Share This

|| श्री राधाकुण्डाष्टकम् ||

वृषभदनुजनाशान्नर्मधर्मोक्तिरङ्गै-
र्निखिलनिजसखीभिर्यत्स्वहस्तेन पूर्णम् ।
प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदै-
स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ १॥

व्रजभुवि मुरशत्रोः प्रेयसीनां निकामै-
रसुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् ।
जनयति हृदि भूमौ स्नातुरुच्चैर्प्रियं य-
त्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ २॥

अघरिपुरपि यत्नादत्र देव्याः प्रसाद-
प्रसरकृतकताक्षप्राप्तिकामः प्रकामम् ।
अनुसरति यदुचाइः स्नानसेवानुबन्धै-
स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ३॥

व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं
व्रजमधुरकिशोरीमौलिरत्नप्रियेव ।
परिचितमपि नाम्ना या च तेनैव तस्या-
स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ४॥

अपि जन इह कश्चिद्यस्य सेवाप्रसादैः
प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः ।
सपदि किल मदीशादास्यपुष्पप्रशस्या
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ५॥

तटमधुरनिकुञ्जः कॢप्तनामान उच्चै-
र्निजपरिजनवर्गैः संविभज्याश्रितस्तैः ।
मधुकररुतरम्या यस्य राजन्ति काम्या-
स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ६॥

तटभुवि वरवेद्यां यस्य नर्मातिहृद्यां
मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या ।
प्रठयति मिथ ईशा प्राणसख्यालिभिः सा
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ७॥

अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घै-
र्वरसरसिजगन्धैर्हारिवारिप्रपूर्णे ।
विहरत इह यस्मिन्दम्पती तौ प्रमत्तौ
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ८॥

अविकलमति देव्याश्चारु कुण्डाष्टकं यः
परिपठति तदीयोल्लासिदास्यार्पितात्मा ।
अचिरमिह शरीरे दर्शयत्येव तस्मै
मधुरिपुरतिमोदैः श्लिष्यमाणां प्रियां ताम् ॥ ९॥

इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां राधाकुण्डाष्टकं श्रीसम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री राधाकुण्डाष्टकम् PDF

श्री राधाकुण्डाष्टकम् PDF

Leave a Comment