|| श्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम् ||
श्रितानां पादं ते सकलविधया शोकहरणः
त्वमेवाम्बा तातस्त्वमसि मम मित्रं सरलहृत् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ १॥
रतं वा दुष्टार्ये त्यजति सुतमम्बा किमु पिता
कृपां कृत्वा शिश्नोदरकृतमहागस्यपि मयि ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ २॥
घनाघो वा दीनो वावयवविकलो वाक्षविकलः
प्रपन्नश्चेत्पादं तव सुखयसीत्यागममहम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ३॥
वदान्यात् त्वद्भूमौ दिवि सुरभिकल्पद्रुमदृषदां
लघुत्वं जानेऽहं वितरणमिदं वीक्ष्य भवतः ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ४॥
द्रवत्कारुण्य श्रीपरिमलसमुद्गारिहृदय
त्वदन्यो दाता चेद्भवति कथमायामि वाद मे ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ५॥
यथाशक्त्याऽऽराध्य प्रसभममरानप्यथ नरान्
व्रजन् देशं देशं श्रमजनिरभूवं न च धनी ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ६॥
न बाधन्ते दारा किमिदमधुना मे प्रिय दिशे-
त्यमुं मा दारिद्र्यव्यसनपरिपिण्डीकृतहृदयम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ७॥
महोदारे भूम्नि त्वयि पितरि पुत्रोऽहमधुना
जरत्काकावस्थां भृशमनुभवामीश किमिदम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ८॥
गुरोः पुत्रः सुकविरवधूतः स्तवमहं
चकारैकश्वासात सरलमिममादृत्य पठताम् ।
प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो
कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ ९॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले
दारिद्र्यमोचनस्तोत्रं नाम नवमोऽध्यायः सम्पूर्णः ।
Found a Mistake or Error? Report it Now