|| श्रीराघवेन्द्रदुःखहरणस्तोत्रम् ||
श्रीपतिबोधविबोधक बाधकसाधितसाधन भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ १॥
राजमुखीरतिसम्भ्रमलोलुपचित्ततया व्यचरं बहु भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ २॥
घटतां मे कथमस्य दुराचरणं चरतो हितकृद्भुवि भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ३॥
वेदपुराणविरुद्धकृतो मे नान्यः त्वत्तः पाता भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ४॥
द्रागिष्टं दास्यसि भक्तेभ्यस्त्वमिति श्रुत्वा त्वापं भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ५॥
यद्यपि दयालुरिति विख्यातस्तर्हि दृक्षं मामुद्धर भोः । यद्यसि दयालुरिति
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ६॥
न ममोद्धर्ता चेत् त्वं भुवि ते दिविजद्रुम इति सुयशः किं भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ७॥
मायापाशविबद्धो नाहं जाने विवेकलवमपि भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ८॥
कृष्णावधूतविरचितमष्टकमेतत् पठतां सकलं भोः ।
राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं परिहर भोः ॥ ९॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले
दुःखहरणस्तोत्रं नाम तृतीयोऽध्यायः सम्पूर्णः ।
Found a Mistake or Error? Report it Now