|| श्रीराघवेन्द्रगुरुकरुणासम्पादनस्तोत्रम् ||
श्री प्राप्त्यै प्रचुरतृषापिशाचकः स-
न्नाजन्मप्रकटिततीर्थकाकभावः ।
दारिद्र्यप्रियसुहृदं तथापि दात-
र्मां पात्रे समितमुपेक्षसे क्व यामि ॥ १॥
राकेन्दुप्रतिममुखीमवेक्ष्य चित्तं
लोलन्तीं शुनककुधीस्तदानुकूल्ये ।
शंयुर्नाभवमनया तथापि भूय-
श्चूडालः स्वजनविरोधजापकीर्त्या ॥ २॥
घर्मार्तो दिशि दिशि चारपाशचारं
सञ्चर्यक्षणमपि विश्रमं न चापम् ।
कापेयस्तदपि मलीमसे धनाशा-
भारेण प्रतिगृहमेम्यकिञ्चनोऽपि ॥ ३॥ (गृहमाप्तकिञ्चनोऽपि)
वेदान्ते न किमपि साहसं मयाऽऽत्तं
संसर्तुर्मम धिषणाभवच्छिलाभा ।
श्रीलानां द्विजकक इत्यनादृतो वा
पश्चाद्वा पुरत उतानुगादिकोऽहम् ॥ ४॥
दारा मे तिलकटु कल्पयन्ति चित्तं
व्रातीनो धनिकतयापि नापमर्थम् ।
तस्मान्मामनुपधिकं सुपुत्रकं ते
तातेष्टप्रद कुरु राघवेन्द्रतीर्थ ॥ ५॥
यं यं वा जनमहमाश्रये सुखाय
प्रारब्धान्मम स स कर्मणो जहाति ।
हृद्रोगः प्रपचति रूपमद्य तत्य-
स्तं क्षिप्रं प्रशमया मां सुखीकुरु त्वम् ॥ ६॥
नर्नृत्तः प्रीतिपरमङ्गनाधनाशी
उष्णालुः सततमहं हिमेलुरेषः ।
किं कार्यमिह परसाधनान्युपायी- (परसाधनान्युपाची-)
कृत्ये त्वं गुरुवर मे गतिं प्रदेहि ॥ ७॥
मा रोदीरिति चिरदूनमानसं मा-
माश्वस्य प्रकटय मय्युदारभावम् ।
याचे त्वां यतिवर राघवेन्द्रतीर्था-
नन्याप्यां पितृबलतां त्वयाहमाप्तुम् ॥ ८॥
कृष्णाख्यः कविरवधूत ईशजूटी
संसर्पत्सुरसहिताभवाग्विलासः ।
स्तोत्रं श्रीगुरुवरपादयोर्वितन्व-
न्नापेदे सपदि तदिष्टपुत्रभावम् ॥ ९॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे नवमपटले
गुरुकरुणासम्पादनस्तोत्रं नाम दशमोऽध्यायः सम्पूर्णः ।
Found a Mistake or Error? Report it Now