Misc

श्रीरघुनन्दनतीर्थस्तुतिः

Raghunandanatirthastutih Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीरघुनन्दनतीर्थस्तुतिः ||

ॐ ।
विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुव ॥

श्रीशः सर्वोत्तमः कृष्णो दण्डदामधरो हरिः ।
श्रीमध्वहृदयावासो रूप्यपीठगतोवतात् ॥ १॥

जयन्ति जानकीजानेः पादम्भोजरजकणाः ।
लेभे शिलापि यैः स्पृष्टावाचं वाक्पतिदुर्लभाम् ॥ २॥

श्रीभारतप्रवरयुद्धरथोद्धतश्रीः
पार्थैककेतनकरालविशालमूर्तिः ।
उच्छैर्घनाघनघटाविकटाट्टहासः
श्रीकृष्णभक्षभरणो हनुमान् पुनातु ॥ ३॥

श्रीमध्वागमसिद्धभव्यविभवं सौभाग्यभाग्योदयं
ग्रन्थग्रन्थिविभेदने पटुतरं मायीभपञ्चाननम् ।
वैराग्याङ्कुरवर्धने जलधरं श्रीमूलरामार्चकं
वन्दे श्रीरघुनन्दनं यतिवृषं मध्वाध्वनीनावनम् ॥ ४॥

आ कुमारं यशो यस्य वैष्णवस्य महात्मनः ।
सत्यधर्मरतः सोसौ पातु श्रीरघुनन्दनः ॥ ५॥

रोगपङ्कार्णवे मग्नान् यः समुद्धरते नरान् ।
सोपूर्ववैद्यः पुण्यात्मा पातु श्रीरघुनन्दनः ॥ ६॥

त्रिकोटिरूपः प्राणो यो वामनस्यार्चकोभवत् ।
तन्मुख्यवायुसेवोत्कः पातु श्रीरघुनन्दनः ॥ ७॥

प्राणाग्नीसूक्तवेद्यो यः पवमानो गुणोज्ज्वलः ।
तन्मध्वदेवसेवोत्कः पातु श्रीरघुनन्दनः ॥ ८॥

श्रीमध्वदेवसिद्दान्तवियद्विष्णुपदीधरम् ।
रघुनन्दनतीर्थार्यं प्रणमामि मुहुर्मुहुः ॥ ९॥

“परैरपहृता मूलरामार्चा गुर्वनुग्रहात् ।
येनानीता नमस्तस्मै रघुनन्दनभिक्षवे” ॥ १०॥

यो ब्रह्मरुद्ररविन्द्रश्चन्द्रादिनामधेश्वरः ।
तन्मूलरामसेवोत्कः पातु श्रीरघुनन्दनः ॥ ११॥

प्राणेशं हनुमद्भीममध्वरूपिणमन्वहम् ।
ध्यायं ध्यायं पुमान् प्राज्ञः पातु श्रीरघुनन्दनः ॥ १२॥

श्रीमद्भागवतो योसौ जितामित्रकरोद्भवः ।
स एव पातु मां नित्यं रघुनन्दनमस्करी ॥ १३॥

श्रीमत्सुरेन्द्रतीर्थाय योदात् तुर्याश्रमं शुभम् ।
स एव पातु मां नित्यं रघुनन्दनमस्करी ॥ १४॥

पदवाक्यप्रमाणज्ञं वेदवेदाङ्गभास्करम् ।
यतीन्द्रं पुण्यदं धन्यं रघुनन्दनमाश्रये ॥ १५॥

पुरतो राजते यस्य श्रीहनूमान् चतुर्भुजः ।
स एव प्राणतत्वज्ञः पातु श्रीरघुनन्दनः ॥ १६॥

विष्णोःसर्वोत्तमत्वं च सर्वदा प्रतिपादयन् ।
यो राजते स एवासौ पातु श्रीरघुनन्दनः ॥ १७॥

“शङ्खचक्रगदाग्रन्थधारी यः प्राणनायकः” ।
पुरतो राजते यस्य सोव्यान्मां रघुनन्दनः ॥ १८॥

यस्यास्थीनि विशुद्धानि शङ्खचक्राङ्कितानि च ।
तं वन्दे वैष्णवं धन्यं रघुनन्दनयोगिनम् ॥ १९॥

दिव्यं वृन्दावनं यस्य पम्पाक्षेत्रे विराजते ।
स एव पातु मां नित्यं रघुनन्दनमस्करी ॥ २०॥

सतां कार्याणि सिद्ध्यन्ति यद्वृन्दावनसेवया ।
तं सेवे रुद्रदेवांशं रघुनन्दनयोगिनम् ॥ २१॥

रघुनन्दनस्तुतिं भक्त्या ये पठन्ति दिने दिने ।
तेषु श्रीजानकीजानिः प्रसन्नो भवति ध्रुवम् ॥ २२॥

इति प्रबन्धपण्डित आनन्दतीर्थशर्मा आचार्यकृता
श्रीरघुनन्दनतीर्थस्तुतिः सम्पूर्णा ।
श्रीकृष्णार्पणमस्तु ।

Found a Mistake or Error? Report it Now

Download श्रीरघुनन्दनतीर्थस्तुतिः PDF

श्रीरघुनन्दनतीर्थस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App