|| रामचन्द्रपादुकामहामन्त्रः ||
अस्य श्रीरामपादुकामहामन्त्रस्य नारायणाय ऋषये नमः शिरसि ।
अनुष्टुभे छन्दसे नमः मुखे ।
श्री पादुकाख्य परमात्मने देवतायै नमः हृदये ।
हंसः बीजाय नमः गुह्ये ।
सोऽहं शक्तये नमः पादयोः ।
ऐं कीलकाय नमः नाभौ ।
श्रीरामचन्द्रप्रसादसिद्ध्यर्थे श्रीगुरोराज्ञया जपे विनियोगाय नमः ।
सर्वाङ्गे करन्यासः / हृदयादि न्यासः ।
हंसां अङ्गुष्ठाभ्यां नमः हृदयाय नमः ।
हंसीं तर्जनीभ्यां नमः शिरसे स्वाहा ।
हंसूं मध्यमाभ्यां नमः शिखायै वषट् ।
हंसैं अनामिकाभ्यां नमः कवचाय हुं ।
हंसौं कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् ।
हंसः करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् ।
भूर्भुवस्स्वरोमिति दिग्बन्धः ।
ध्यानम् –
मुक्ता-विद्रुम-हेम-हीर-घटिते श्रीपीठराजोत्तमे ।
दीव्यन्तौ विलसत्-निसर्ग-परमानन्दप्रकाशाद्भुते ॥
विस्फूर्जत्- तरुणार्ककोटि किरणव्याकीर्ण शुद्धाम्बरे ।
सत्-चित्-रूप-घने घनाघ-तिमिर-स्तोमैक-नाशोद्भटे ॥
भक्तानां शिरसि प्रकाश पटली फुल्लत्-सहस्रच्छदे ।
पद्मेऽखण्डचन्द्रमण्डलगते श्रीहंसपीठोत्तमे ॥
तिष्ठन्त्यौ निजपूर्णधामनि सदा कल्याणदिव्यास्पदे ।
माया-मोह-मदान्धकारशमने सेव्ये विभोः पादुके ॥
पञ्चपूजाः –
लं पृथ्व्यात्मने गन्धं कल्पयामि नमः ।
हं आकाशात्मने पुष्पं कल्पयामि नमः ।
यं वायव्यात्मने धूपं कल्पयामि नमः ।
रं वह्न्न्यात्मने दीपं कल्पयामि नमः ।
वं अमृतात्मने नैवेद्यं कल्पयामि नमः ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारान् कल्पयामि नमः ।
ॐ ऐं ह्रीं श्रीं ह्स्ख्फ्रें हसक्षमलवरयूम् ।
ॐ ऐं ह्रीं श्रीं स्ह्ख्फ्रें सहक्षमलवरयीम् ।
रां रामचन्द्रसहजानन्दिनी
रामचन्द्रसहजानन्दिनी श्रीपादुकां पूजयामि नमः ।
- hindiराम राम रामेति मंत्र
- sanskritराम मंत्र
Found a Mistake or Error? Report it Now