|| श्रीरमणप्रातस्स्मरणस्तोत्रम् ||
॥ श्रीमते रमणाय नमः ॥
प्रातस्स्मराम्यरुणशैलनितम्बदीव्य-
त्पुण्याश्रमे रुचिरमञ्चवरे शयानम् ।
प्रावारकाऽऽवृततनुं मुकुलीकृताक्ष-
मन्तर्मुखं रमणमात्मसमाधिलीनम् ॥ १॥
प्रातर्नमाम्यरुणशैलविहारलोल-
मस्पर्शयोगसहजात्मसमाधिवश्यम् ।
आविर्भवन्निजसुखानुभवैकतृप्त-
मव्याजभूतकरुणं रमणं शरण्यम् ॥ २॥
प्रातर्भजाम्यपरिलुप्तनिगूढशक्तिं
ज्ञानाग्निदग्धसहकारणजन्मबीजम् ।
लोकं समस्तमपि योजयितुं सुखेन
लीलागृहीतवपुषं रमणं मुनीन्द्रम् ॥ ३॥
प्रातस्स्तुवे स्तुतिपथातिगमप्रमेय –
मासेविनाममृतभावविधानदक्षम् ।
आसेचनं नयनयोरनवद्यशील-
मह्मोनिवारणचणं रमणं यतीन्द्रम् ॥ ४॥
प्रातर्ब्रुवे रमणपावननामधेयं
यद्भागधेयमखिलस्य तनोति जन्तोः ।
आम्रेडितं हरति यद्वृजिनं समस्तं
येन क्रमाद्भवतिसोऽहमिति प्रबोधः ॥ ५॥
यः श्लोकपञ्चकमिदं पठति प्रभाते
सौभाग्यदं भगवतो रमणेश्वरस्य ।
तस्मै समस्तजनकर्मफलप्रदाता
श्रेयस्स एव रमणस्सकलं ददाति ॥ ६॥
इति श्रीरमणप्रातस्स्मरणस्तोत्रं समाप्तम् ॥
Found a Mistake or Error? Report it Now