|| रुद्रमृत्युञ्जयस्तोत्रम् ||
अथाष्टचत्त्वारिंशः पटलः
आनन्दभैरव उवाच ।
श्रुतं च साधनं पुण्यं महारुद्रस्य सुन्दरि ।
मणिपूरे प्रकाशञ्च कथितं ज्ञाननिर्णयम् ॥ १॥
अकस्मात् सिद्धिसम्पत्तिं नुतिं वद महाप्रियाम् ।
यस्य श्रवणमात्रेण पाठेन योगिनीवशम् ॥ २॥
श्रीआनन्दभैरवी उवाच ।
परमानन्ददेवेश योगानामधिप प्रभो ।
स्तोत्रं रुद्रस्य वक्ष्यामि सारात्सारं परात्परम् ॥ ३॥
यज्ज्ञात्वा योगिनः सर्वे षट्चक्रपरिभेदकाः ।
आकाशगामिनः सर्वेर्स्वगमोक्षाभिलाषुकाः ॥ ४॥
महादेवसमाः सर्वे देवाश्च स्वर्गभोगिनः ।
सर्वरक्षाकरं स्तोत्रं ये पठन्ति निरन्तरम् ॥ ५॥
ते यान्ति ब्रह्मसदनं सिद्धमुख्या महीतले ॥ ६॥
ॐ भजामि शम्भुं सुखमोक्षहेतुं
रुद्रं महाशक्तिसमाकुलाङ्गम् ।
रौद्रात्मकं चारुहिमांशुशेखरम् ।
कालं गणेशं सुमुखाय शङ्करम् ॥ ७॥
मृत्युञ्जयं जीवनरक्षकं परं
शिवं परब्रह्मशरीरमङ्गलम् ।
हिमांशुकोटिच्छविमादधानं
भजामि पद्मद्वयमध्यसंस्थितम् ॥ ८॥
सर्वात्मकं कामविनाशमूलम् ।
तं चन्द्रचूडं मणिपूरवासिनम् ।
चतुर्भुजं ज्ञानसमुद्रयाढ्यं
पाशं मृगाक्षं गुणसूत्रव्याप्तम् ॥ ९॥
धरामयं तेजसमिन्दुकोटिं
वायुं जलेशं गगनात्मकं परम् ।
भजामि रुद्रं कुललाकिनीगतं
सर्वाङ्गयोगं जयदं सुरेश्वरम् ॥ १०॥
शुक्रं महाभीमनयं पुराणं
प्राणात्मकं व्याधिविनाशमूलम् ।
यज्ञात्मकं कामनिवारणं गुरुं
भजामि विश्वेश्वरशङ्करं शिवम् ॥ ११॥
वेदागमानामतिमूलदेशं
तदुद्भवं भद्रहितं परापरम् ।
कालान्तकं ब्रह्मसनातनप्रियं
भजामि शम्भुं गगनादिरूढम् ॥ १२॥
शिवागमं शब्दमयं विभाकरं
भास्वत्प्रचण्डानलविग्रहं ग्रहम् ।
ग्रहस्थितं ज्ञानकरं करालं
भजामि शम्भुं प्रकृतीश्वरं हरम् ॥ १३॥
छायाकरं योगकरं सुखेन्द्रं
मत्तं महामत्तकुलोत्सवाढ्यम् ।
योगेश्वरं योगकलानिधिं विधिम् ।
विधानवक्तारमहं भजामि ॥ १४॥
हेमाचलालङ्कृतशुद्धवेशं
वराभयादाननिदानमूलम् ।
भजामि कान्तं वनमालशोभितं
चामूलपद्मामलमालिनं कुलम् ॥ १५॥
स्वयं पुराणं पुरुषेश्वरं गुरुं
मिथ्याभयाह्लादविभाविनं भजे ।
भावप्रियं प्रेमकलाधरं शिवं
गिरीश्वरं चारुपदारविन्दम् ॥ १६॥
ध्यानप्रियं ज्ञानगभीरयोगं
भाग्यास्पदं भाग्यसमं सुलक्षणम् ।
शूलायुधं शूलविभूषिताङ्गं
श्रीशङ्करं मोक्षफलक्रियं भजे ॥ १७॥
नमो नमो रुद्रगणेभ्य एवं
मृत्युञ्जयेभ्यः कुलचञ्चलेभ्यः ।
शक्तिप्रियेभ्यो विजयादिभूतये
शिवाय धन्याय नमो नमस्ते ॥ १८॥
बाह्यं त्रिशूलं वरसूक्ष्मभावं
विशालनेत्रं तनुमध्यगामिनम् ।
महाविपद् दुःखविनाशबीजं
प्रज्ञादयाकान्तिकरं भजामि ॥ १९॥
पुरान्तकं पूर्णशरीरिणं गुरुं
स्मरारिमाद्यं निजतर्कमार्गम् ।
अनादिदेवं दिवि दोषघातिनं
भजामि पञ्चाक्षरपुण्यसाधनम् ॥ २०॥
दिगग्बरं पद्ममुखं करस्थं
स्थितिक्रियायोगनियोजनं भवम् ।
भावात्मकं भद्रशरीरिणं शिवं
भजामि पञ्चाननमर्कवर्णम् ॥ २१॥
मायामयं पङ्कजदामकोमलं
दिग्व्यापिनं दण्डधरं हरेश्वरम् ।
त्रिपक्षकं त्र्यक्षरबीजभावं
त्रिपद्ममूलं त्रिगुणं भजामि ॥ २२॥
विद्याधरं वेदविधानकार्यं
कायागतं नीतनिनादतोषम् ।
नित्यं चतुर्वर्गफलादिमूलं
वेदादिसूत्रं प्रणमामि योगम् ॥ २३॥
वेदान्तवेद्यं कुलशास्त्रविज्ञं
क्रियामयं योगस्वधर्मदानम् ।
भक्तेश्वरं भक्तिपरायणं वरं
भक्तं महाबुद्धिकरं भजाम्यहम् ॥ २४॥
गतागतं गम्यमगम्यभावं
समुल्लसत्कोटिकलावतंसम् ।
भावात्मकं भावमयं सुखासुखं
भजामि भर्गं प्रथमारुणप्रभम् ॥ २५॥
बिन्दुस्वरूपं परिवादवादिनं
मध्याह्नसूर्यायुतसन्निभं नवम् ।
विभूतिदानं निजदानदानं
दानात्मकं तं प्रणमामि देवम् ॥ २६॥
कुम्भापहं शत्रुनिकुम्भघातिनं
दैत्यारिमीशं कुलकामिनीशम् ।
प्रीत्यान्वितं चिन्त्यमचिन्त्यभावं
प्रभाकराह्लादमहं भजामि ॥ २७॥
त्रिमूर्तिमूलाय जयाय शम्भवे
हिताय लोकस्य वपुर्धराय ।
नमो भयाच्छिन्नविघातिने पते
नमो नमो विश्वशरीरधारिणे ॥ २८॥
तपःफलाय प्रकृतिग्रहाय
गुणात्मने सिद्धिकराय योगिने ।
नमः प्रसिद्धाय दयातुराय
वाञ्छाफलोत्साहविवर्धनाय ते ॥ २९॥
शिवममरमहान्तं पूर्णयोगाश्रयन्तं
धरणिधरकराब्जैर्वर्धमानं त्रिसर्गम् ।
विषम मरणघातं मृत्युपूज्यं जनेशं
विधिगणपतिसेव्यं पूजये भावयामि ॥ ३०॥
एतत्स्तोत्रं पठेद् विद्वान् मुनिर्योगपरायणः ।
नित्यं जगन्नाथगुरुं भावयित्वा पुनः पुनः ॥ ३१॥
मणिपूरे वायुनिष्ठो नित्यं स्तोत्रं पठेद् यदि ।
जीवन्मुक्तश्च देहान्ते परं निर्वाणमाप्नुयात् ॥ ३२॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने रुद्रमृत्युञ्जयस्तवनं
नाम अष्टचत्वारिंशत्तमः पटलः ॥ ४८॥
Found a Mistake or Error? Report it Now