|| श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम् ||
(सदाशिवब्रह्मेन्द्रपञ्चरत्नम्)
यत्सदशनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य । (भक्तिर्जाताऽप्यकर्णविद्धस्य)
तत्सदशनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥ १॥
योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम् । (सन्दधन्वीथ्याम्)
भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि ॥ २॥
यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम् ।
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम् ॥ ३॥
पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम् ।
परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥ ४॥
उन्मत्तवत्सञ्चरतीह शिष्य
स्तवेति लोकस्य वचांसि शृण्वन् ।
खिद्यन्नुवाचास्य गुरुः पुराहो (पुराऽहो)
पञ्चकमतद्भक्त्या श्लोकानां विरचितं लोके ।
यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥ ६॥
(सोऽपि गच्छतेत्करुणां शीघ्रं)
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रं सम्पूर्णम् ।
अथवा
इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीसच्चिदानन्द-
शिवाभिनवनृसिंहभारतीस्वामी विरचितं
श्रीसदाशिवपञ्चरत्नं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now

