Download HinduNidhi App
Misc

उममहेश्वराष्टकम् (सङ्घिल कृतम्)

Sanghila Krita Uma Maheswara Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

|| उममहेश्वराष्टकम् (सङ्घिल कृतम्) ||

पितामहशिरच्छेदप्रवीणकरपल्लव ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ १ ॥

निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ २ ॥

शैलराजस्य जामातः शशिरेखावतंसक ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ३ ॥

शैलराजात्मजे मातः शातकुम्भनिभप्रभे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ४ ॥

भूतनाथ पुराराते भुजङ्गामृतभूषण ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ५ ॥

पादप्रणतभक्तानां पारिजातगुणाधिके ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ६ ॥

हालास्येश दयामूर्ते हालाहललसद्गल ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ७ ॥

नितम्बिनि महेशस्य कदम्बवननायिके ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ८ ॥

इति श्रीहालास्यमाहात्म्ये सङ्घिलकृतं उमामहेश्वराष्टकम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download उममहेश्वराष्टकम् (सङ्घिल कृतम्) PDF

उममहेश्वराष्टकम् (सङ्घिल कृतम्) PDF

Leave a Comment