संसारमोहनं गणेशकवचम् PDF संस्कृत
Download PDF of Sansaramohanaganeshakavacham Sanskrit
Shri Ganesh ✦ Kavach (कवच संग्रह) ✦ संस्कृत
संसारमोहनं गणेशकवचम् संस्कृत Lyrics
|| संसारमोहनं गणेशकवचम् ||
श्रीविष्णुरुवाच ।
संसारमोहनस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥ १॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
सर्वेषां कवचानान्ऽच सारभूतमिदं मुने ॥ २॥
ॐ गं हुं श्रीं गणेशाय स्वाहा मे पातु मस्तकम् ।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ३॥
ॐ ह्रीं क्लीं श्रीं गमिति च सन्ततं पातु लोचनम् ।
तालुकं पातु विघ्नेशः सन्ततं धरणीतले ॥ ४॥
ॐ ह्रीं श्रीं क्लीमिति सन्ततं पातु नासिकाम् ।
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥ ५॥
दन्ताणि तालुकां जिह्वां पातु मे षोडशाक्षरः ॥ ६॥
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदाऽवतु ।
ॐ क्लीं ह्रीं विघ्ननाशाय स्वहा कर्णं सदाऽवतु ॥ ७॥
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ।
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ॥ ८॥
ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलन्ऽच गम् ।
पाणौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् ॥ ९॥ var करौ पादौ
प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः ।
दक्षिणे पातु विघ्नेशो नैरृत्यान्तु गजाननः ॥ १०॥
पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः ।
कृष्णस्यांशश्चोत्तरे तु परिपूर्णतमस्य च ॥ ११॥
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्द्ध्वतः ।
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ॥ १२॥ var गणाधिपोऽप्यधः
स्वप्ने जागरणे चैव पातु मे योगिनां गुरुः ॥ १३॥
इति ते कथितं वत्स ! सर्वमन्त्रौघविग्रहम् ।
संसारमोहनं नाम कवचं परमाद्भुतम् ॥ १४॥
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ।
वृन्दावने विनीताय मह्यं दिनकरात्मज ॥ १५॥
मया दत्तन्ऽच तुभ्यन्ऽच यस्मै कस्मै न दास्यसि ।
परं वरं सर्वपूज्यं सर्वसङ्कटतारणम् ॥ १६॥
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ १७॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ १८॥
इदं कवचमज्न्ऽआत्वा यो भजेच्छङ्करात्मजम् ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १९॥
इति ब्रह्मवैवर्ते गणपतिखण्डे संसारमोहनं नाम
गणेशकवचं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसंसारमोहनं गणेशकवचम्
READ
संसारमोहनं गणेशकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
