Download HinduNidhi App
Misc

श्रीसरयू अष्टकम्

Saryu Ashtakam Hindi

MiscAshtakam (अष्टकम निधि)हिन्दी
Share This

|| श्रीसरयू अष्टकम् ||

चक्रवर्तीदशरथ उवाच ।

नमस्ते सरयू देवि वसिष्ठ तनये शुभे ।
ब्रह्मादि सकलैर्देवैरृषिभिर्नारदादिभिः ॥

सदा त्वं सेविता देवि तथा सुकृतिभिर्नरैः ।
मानसाच्च समायाते जगतां पाप हारिणि ॥

स्मरतां पश्यतां देवि पापनाशे पटीयसि ।
ये पिबन्ति जलं देवि त्वदीयं गतमत्सराः ॥

स्तनपानं न ते मातुः करिष्यन्ति कदाचन ।
मनु प्रभृतिभिर्मान्यैमानितासि सदा शुभे ॥

त्वत्तीर मरणेनैव त्वन्नाम रटनेन च ।
ये त्यजन्ति तनुं देवि ते कृतार्था न संशयः ॥

त्वं तु नेत्रोद्भवा देवि हरेर्नारायणस्य हि ।
महिमा तव देवैश्च गीयते च मुहुर्मुहुः ॥

तत्र का हि मनः शक्तिः स्तवने मानुषस्य च ।
त्वत्तीरे सर्व तीर्थानि निवसन्ति चतुर्युगे ॥

नमो देवि नमो देवि पुनरेव नमो नमः ।
हे वासिष्ठि महाभागे प्रणतं रक्ष बन्धनात् ॥

इति श्रीसरयू अष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्रीसरयू अष्टकम् PDF

श्रीसरयू अष्टकम् PDF

Leave a Comment