Misc

सौख्याष्टकम्

Saukhyashtakam Sanskrit

Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| सौख्याष्टकम् ||

निरर्गल-समुन्मिषन्नव-नवानुकम्पामृत-
प्रवाह-रस-माधुरी-मसृण-मानसोल्लासिनि ।
नमज्जन-मनोरथ-प्रणयनैक-दीक्षाव्रते !
निधेहि मम मस्तके चरण-पङ्कजं तावकम् ॥ १॥

नमन्मृड-जटाटवी-गलित-गाङ्ग-तोय-श्रिते !
स्पुरन्मधुर-विग्रह-प्रचुर-कान्ति-सन्दानिते ।
सुसौरभ-करम्बिते ! त्रिपुरवैरि-सीमन्तिनि !
त्वदीय-पद-पङ्कजे मम मनो मिलिन्दायताम् ॥ २॥

उदञ्चय- दृगञ्चलं, रचय सान्द्रसान्द्रां दयां
विकासय निजं पदं, विघटयाशु दुःख-त्रयम् !
अये ! प्रकटयाधुना विधुत-तर्क-जालामल-
प्रबोध-रस-माधुरीं विविध-मङ्गलारम्भिणि ! ॥ ३॥

त्वयैव जगदङ्कुरो भवन-विक्रियां नीयते
किमित्यपर-कल्पना तदुदरान्तरालम्बिनी ।
अनन्य-सदृश-क्रिये!भगवतीं विहायाहकं
कथं कथय चेतनः शश-विषाणमाप्तुं यते ॥ ४॥

भवेद्यदि जपावनी सरिदुदञ्चदर्कच्छटा-
स्फुटारुणिम-मज्जिमा मसृण-लोहितेहाब्जिनी ।
कथञ्चन तदा मनो जननि ! तावकाङ्ग-प्रभा-
श्रियं तुलयितुं व्रजेत्तदपि तस्य कापेयकम् ॥ ५॥

निसर्ग-मधुराकृते गिरिश-नेत्र-राकायिते !
नवावृति-चमत्कृते ! परिलसत्-सपर्याकृते ।
मयाद्य मनसा धृतेऽचिरय मातरुद्यद्दया-
सुधा-ह्रद-निमज्जनाकरण-केलि-सीमायते ॥ ६॥

महेश्वर-परिग्रहे ! स्तुति-परायणानुग्रहे !
महास्पुरण-विग्रहे निरय-यातना-निग्रहे ! ।
प्रसीद सुख-सङ्ग्रहे ! प्रणत-दुःख-भङ्गाग्रहे !
विनाशित-महाग्रहे ! विमल-भक्ति-योग-ग्रहे ! ॥ ७॥

महाभय-निवारिणी, सकल-शोक-संहारिणी,
भवाम्बु-निधि-तारिणी, दुरित-जात-विद्राविणी ।
अहम्मति-विदारिणी, पतित-मण्डलोद्धारिणी,
ममान्तर-विहारिणी, भवतु सौख्यसञ्चारिणी ॥ ८॥

इति सौख्याष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download सौख्याष्टकम् PDF

सौख्याष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App