सौख्याष्टकम् PDF संस्कृत
Download PDF of Saukhyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
सौख्याष्टकम् संस्कृत Lyrics
|| सौख्याष्टकम् ||
निरर्गल-समुन्मिषन्नव-नवानुकम्पामृत-
प्रवाह-रस-माधुरी-मसृण-मानसोल्लासिनि ।
नमज्जन-मनोरथ-प्रणयनैक-दीक्षाव्रते !
निधेहि मम मस्तके चरण-पङ्कजं तावकम् ॥ १॥
नमन्मृड-जटाटवी-गलित-गाङ्ग-तोय-श्रिते !
स्पुरन्मधुर-विग्रह-प्रचुर-कान्ति-सन्दानिते ।
सुसौरभ-करम्बिते ! त्रिपुरवैरि-सीमन्तिनि !
त्वदीय-पद-पङ्कजे मम मनो मिलिन्दायताम् ॥ २॥
उदञ्चय- दृगञ्चलं, रचय सान्द्रसान्द्रां दयां
विकासय निजं पदं, विघटयाशु दुःख-त्रयम् !
अये ! प्रकटयाधुना विधुत-तर्क-जालामल-
प्रबोध-रस-माधुरीं विविध-मङ्गलारम्भिणि ! ॥ ३॥
त्वयैव जगदङ्कुरो भवन-विक्रियां नीयते
किमित्यपर-कल्पना तदुदरान्तरालम्बिनी ।
अनन्य-सदृश-क्रिये!भगवतीं विहायाहकं
कथं कथय चेतनः शश-विषाणमाप्तुं यते ॥ ४॥
भवेद्यदि जपावनी सरिदुदञ्चदर्कच्छटा-
स्फुटारुणिम-मज्जिमा मसृण-लोहितेहाब्जिनी ।
कथञ्चन तदा मनो जननि ! तावकाङ्ग-प्रभा-
श्रियं तुलयितुं व्रजेत्तदपि तस्य कापेयकम् ॥ ५॥
निसर्ग-मधुराकृते गिरिश-नेत्र-राकायिते !
नवावृति-चमत्कृते ! परिलसत्-सपर्याकृते ।
मयाद्य मनसा धृतेऽचिरय मातरुद्यद्दया-
सुधा-ह्रद-निमज्जनाकरण-केलि-सीमायते ॥ ६॥
महेश्वर-परिग्रहे ! स्तुति-परायणानुग्रहे !
महास्पुरण-विग्रहे निरय-यातना-निग्रहे ! ।
प्रसीद सुख-सङ्ग्रहे ! प्रणत-दुःख-भङ्गाग्रहे !
विनाशित-महाग्रहे ! विमल-भक्ति-योग-ग्रहे ! ॥ ७॥
महाभय-निवारिणी, सकल-शोक-संहारिणी,
भवाम्बु-निधि-तारिणी, दुरित-जात-विद्राविणी ।
अहम्मति-विदारिणी, पतित-मण्डलोद्धारिणी,
ममान्तर-विहारिणी, भवतु सौख्यसञ्चारिणी ॥ ८॥
इति सौख्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसौख्याष्टकम्
READ
सौख्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
