|| शास्तृ भुजंग स्तोत्रम् ||
श्रितानन्दचिन्तामणिश्रीनिवासं
सदा सच्चिदानन्दपूर्णप्रकाशम् ।
उदारं सदारं सुराधारमीशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १॥
विभुं वेदवेदान्तवेद्यं वरिष्ठं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् ।
विभास्वत्प्रभावप्रभं पुष्कलेषुं
परं ज्योतिरूपं भजे भूतनाथम् ॥ २॥
परित्राणदक्षं परब्रह्मसूत्रं
स्फुरच्चारुगात्रं भवध्वान्तमित्रम् ।
परं प्रेमपात्रं पवित्रं विचित्रं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ३॥
परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशाधिपीठोज्ज्वलच्चारुदीपम् ।
सुरेशादि संसेवितं सुप्रतापं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ४॥
गुरुं पूर्णलावण्यपादादिकेशं
गरिष्ठं महाकोटिसूर्यप्रकाशम् ।
कराम्भोरुहन्यस्तवेत्रं सुरेशं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ५॥
हरीशानसंयुक्तशक्त्येकवीरं
किरातावतारं कृपापाङ्गपूरम् ।
किरीटावतंसोज्ज्वलत्पिञ्छभारं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ६॥
महायोगपीठे ज्वलन्तं महान्तं
महावाक्यसारोपदेशं सुशान्तम् ।
महर्षिप्रहर्षप्रदं ज्ञानकन्दं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ७॥
महारण्यमन्मानसान्तर्निवासा-
नहङ्कार दुर्वारहिंस्रान्मृगादीन् ।
निहन्तुं किरातावतारं चरन्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ८॥
पृथिव्यादि भूतप्रपञ्चान्तरस्थं
पृथग्भूतचैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणं प्रसिद्धं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ९॥
जगज्जीवनं पावनं भावनीयं
जगद्व्यापकं दीपकं मोहनीयम् ।
सुखाधारमाधारभूतं तुरीयं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १०॥
इहामुत्रसत्सौख्यसम्पन्निधानं
महद्योनिमव्याहृतात्माभिधानम् ।
अहः पुण्डरीकाननं दीप्यमानं
परं ज्योतिरूपं भजे भूतनाथम् ॥ ११॥
त्रिकालस्थितं सुस्थिरं ज्ञानसंस्थं
त्रिधामत्रिमूर्त्यात्मकं ब्रह्मसंस्थम् ।
त्रयीमूर्तिमार्तिछिदं शक्तियुक्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १२॥
इडां पिङ्गळां सत्सुषुम्नां विशन्तं
स्फुटं ब्रह्मरन्ध्रस्वतन्त्रं सुशान्तम् ।
दृढं नित्य निर्वाणमुद्भासयन्तं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १३॥
अनुब्रह्मपर्यन्तजीवैक्यबिम्बं
गुणाकारमत्यन्तभक्तानुकम्पम् ।
अनर्घं शुभोदर्कमात्मावलम्बं
परं ज्योतिरूपं भजे भूतनाथम् ॥ १४॥
इति शास्तृभुजङ्गस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now