श्री षडानन स्तुति PDF

Download PDF of Shadanan Stuti Sanskrit

MiscStuti (स्तुति संग्रह)हिन्दी

|| श्री षडानन स्तुति || श्रीगौरीसहितेशभालनयनादुद्भूतमग्न्याशुग- व्यूढं विष्णुपदीपयश्शरवणे सम्भूतमन्यादृशम् । षोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतये शर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ त्रिषडकृशदृगब्जष्षण्मुखाम्भोरुहश्रीः द्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः । शिखिवरमधिरूढः शिक्षयन् सर्वलोकान् कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यं यच्चान्यद्विश्वरूपं तदनवधितया योगिभिश्चाप्यचिन्त्यम् । षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भाति स्वाराध्याशेषदुःखप्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्ना धर्तुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि । तत्तादृक्स्थूलभूतं...

READ WITHOUT DOWNLOAD
श्री षडानन स्तुति
Share This
Download this PDF