|| शाकिनीस्तोत्रम् ||
अथ सप्तषष्टितमः पटलः
श्रीआनन्दभैरवी उवाच
कुरु नाथ वन्दनं भो पूजनं कवचं पठ ।
वर्णाध्यानं कण्ठपद्मे स्थिरो भव जगत्पते ॥ ६७-१॥
परमा शाकिनी विद्या महामोहनिवारिणी ।
योगिनीकोटिभिः सार्धं राजते सूर्यवत् सदा ॥ ६७-२॥
वाराणसीपुरे स्थित्वा कण्ठपद्मस्थितां भज ।
स्तोत्रेणानेन विधिना भक्तिं कुरु महाशिवे ॥ ६७-३॥
अखण्डे नीलपङ्केरुहविमलकरे स्थापितां षोडशारे
हेमाभां विद्युताभां सुकणकवलयां चन्द्रकोटिप्रभावाम् ।
श्रीकन्यां शाकिनीशां त्रिपुरहरकराम्भोजपूजाविनोदीं
कामाख्यां रुद्रमायां वधुनयनयुतां शक्रकान्तप्रकाशाम् ॥ ६७-४॥
सिन्धुस्थां भावयामि प्रमथगणवधूप्रोज्ज्वलां वेदयुक्तां
योगेन्द्रानन्दकर्त्रीं कमलवलयां नीलजीमूतनेत्राम् ।
ओङ्कारां कारणाख्यां मधुगृहनिकरामष्टगेहप्रकाशा-
मानन्दज्ञाननित्यां द्विविनदलकलां कण्ठवैकुण्ठशोभाम् ॥ ६७-५॥
धर्मार्थज्ञानदात्रीं त्रिभुवनभुविकाह्लादहेतोः प्रकाश्यां
विन्ध्यस्थां पीठकन्यां त्रिकमलनयनां वेदहस्तां प्रसन्नाम् ।
स्मेरास्यां चन्द्रवक्त्रां हरिहरविधिभिर्ध्यानगम्यां कदाचि-
च्छम्भुस्थां चारुरूपां भवभयहरणीं तारिणीं भावयामि ॥ ६७-६॥
सूक्ष्मां स्थूलप्रभाढ्यां चरणतलविभाकोटिबन्धूककान्तिं
कान्तानां कामकान्तां जयरतिभवतीं शाकिनीं शोकहन्त्रीम् ।
शब्दान्तःप्रान्तरस्थां स्थितिलयगगनां पद्मरागस्रजाढ्यां
कान्त्या विश्वं ज्वलन्तीं मदनवधुरमाबीजमालां स्मरामि ॥ ६७-७॥
व्याघ्रस्थां व्याघ्रवस्त्रां हरिणनयनकैः केवलानन्दरूपां
वामां शक्तिं प्रवालां त्रिकुलजलकलां कालराजेश्वरीं याम् ।
आनन्दाब्धौ प्रभान्तीं प्रभुगणभयहां मातृकाबीजभूषां
घोरामट्टाट्टहास्यां दशनसुहसनां चारुनेत्रां भजामि ॥ ६७-८॥
बालादित्यायुताभां चरमपदमदां मद्यमाधुर्यभक्षां
क्षोणीसिंहासनस्थां मणिमयजपमालाभिर्वरानन्दहस्ताम् ।
मातल्लीलाकलापां तरतनुविमलां चामले कण्ठपद्मे
नित्यज्ञानप्रकाशां भजति मम सदानन्दचित्तावसन्नाम् ॥ ६७-९॥
हालापानोद्यताङ्गीं परमसुखमयीं वेदसन्तानकर्त्रीं
योगानन्दादिकर्त्रीं तरुणघनघटाघोररूपां करालाम् ।
आकाशाम्भोजमध्येऽविकलकरयुषा व्यापकाङ्गप्रकाशां
सा माता श्रीं वहन्तीं परिसमयकलौ मोक्षभक्तिं भजे त्वाम् ॥ ६७-१०॥
सा विद्याधर्मचिन्तामणिगुणजनिता योजिता जातु भीतौ
शब्दब्रह्मैकहेतुस्थलनिलयमहाज्ञानसाक्षिप्रतीता ।
त्वं माता वेदमाता हर हर कलुषं बालिशं तारयन्ती
जीवात्मानं द्विरक्षक्षयमरणभयभ्रान्तिमाभञ्जयन्ती ॥ ६७-११॥
ज्वाला मालाविलोला कलयति कलुषं शाकिनी सैव माता
यातायातप्रभातोदयदिवसनिशाभ्रान्तिमोहारिनाशा ।
दासानामामवासा वसति शशिगृहे कातीकेशासुवंशा
संसारेऽशादिहंसा चल चल चपलं त्वं कलाषोडशारे ॥ ६७-१२॥
बीजात्मा यज्ञकुण्डे रचयति चरणाच्छन्दसां गद्यपद्यैः
पाताले भूकराले कुलयुगदलके निर्गता वेदशक्तिः ।
पश्यन्ती मध्यमाद्या नयनवचनगा वैखरी वाक्स्वरूपा
कण्ठे हृत्पद्ममूले कथयति कविता स्तम्भितास्त्वां प्रयामि ॥ ६७-१३॥
परा सा पर्वा सा रहितमतहासा प्रविश मे
घनश्यामे वामे द्विकमलललाटेऽतिशिखया ।
वहन्ती सिन्दूरं त्रिजपपरयानामपरया
मुखाम्भोजे वश्या भवभवयुगं षोडशदले ॥ ६७-१४॥
रमा लज्जा माया वधुमदनकूर्च्चास्त्रसहिते
हिते मातः शाकम्भरि धरणि बाला कमलया ।
निशार्धे शत्र्वङ्गं हन हन करे संहर रिपुं
त्रितारी षट्कूटा मदनवधुजाह्निजाया हर अघम् ॥ ६७-१५॥
योगेन्द्रानन्दमुद्रां तरतनुतपनां तापिनीं तप्तदेहां
मुग्धानां मोहमुग्धां मुकुटशशिमणिच्छाययाच्छन्नवेशाम् ।
कामाख्यां ब्रह्मबीजध्वनिमदनकुलाद्यादिबीजप्रतिष्ठां
स्वाहान्तां भावयामि क्षितिसुरपतिहंसाख्यब्रह्मास्त्रविद्याम् ॥ ६७-१६॥
सायाह्ने कामलक्ष्मीः पवनविधुयुता दीर्घनेत्रा त्रिनेत्रा
सावित्री मध्यकाले न चलति चलति श्रद्धया मस्तकोर्ध्वे ।
कोट्यर्काभासमाना न नमति कुटिलं तेजसा व्याकुलालं
कालोल्काकोटिकूटं रमयति धवलास्यारुणाङ्गी प्रभाते ॥ ६७-१७॥
गायत्री वर्णमात्रामितवनवनिता मानिता भालकूपे
हालाकालानलाङ्गी तिमिरहरपदालीढपादारविन्दा ।
त्वं विद्या वाग्भवाद्या प्रणवतनुमयी देवलक्ष्मीः प्रसादा
नादाद्याचार्धचन्द्रोज्ज्वलयुगलं षोडशारे ममारे ॥ ६७-१८॥
जाया माया विमाया हयमुखि विमले केवले तारहारे
हारार्कचित्रिताङ्गि स्ववधुयुगयुगे तारयद्वन्द्वचन्द्रे ।
स्वाहा मेधा स्वधा त्वं श्रुतिनुतिसुनतिग्रन्थिवाग्वादिनी त्वं
मामेकं रक्षयुग्मं धरणिधरसुखं सञ्चयाग्निप्रियान्ता ॥ ६७-१९॥
एतत् स्तववरं पठेद्यदि सदा ध्यात्वा नरेन्द्रः सुखी
धन्यः पुण्यमुपैति देवविलयं पीठादिसन्दर्शनम् ।
योगानामपि सिद्धिभाक्प्रियतरं ज्ञानं धनं लभ्यते
राजानं वशयन्ति ते च सहसा साक्षात् कटाक्षै रमाम् ॥ ६७-२०॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीस्तोत्रविन्यासो नाम
सप्तषष्टितमः पटलः ॥ ६७॥
Found a Mistake or Error? Report it Now