शनिभार्या एवम् शनिस्तोत्रम् PDF संस्कृत
Download PDF of Shanibharyastotra Sanskrit
Shani Dev ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
शनिभार्या एवम् शनिस्तोत्रम् संस्कृत Lyrics
|| शनिभार्या एवम् शनिस्तोत्रम् ||
यः पुरा राज्यभ्रष्टाय नलाय प्रददो किल ।
स्वप्ने शौरिः स्वयं मन्त्रं सर्वकामफलप्रदम् ॥ १॥
क्रोडं नीलाञ्जनप्रख्यं नीलजीमूतसन्निभम् ।
छायामार्तण्डसम्भूतं नमस्यामि शनैश्चरम् ॥ २॥
ॐ नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णाञ्जननीलकाय ।
स्मृत्वा रहस्यं भुवि मानुषत्वे फलप्रदो मे भव सूर्यपुत्र ॥ ३॥
नमोऽस्तु प्रेतराजाय कृष्णवर्णाय ते नमः ।
शनैश्चराय क्रूराय सिद्धिबुद्धिप्रदायिने ॥ ४॥
य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम् ।
मामकानां भयं तस्य स्वप्नेष्वपि न जायते ॥ ५॥
गार्गेय कौशिकस्यापि पिप्पलादो महामुनिः ।
शनैश्चरकृता पीडा न भवति कदाचन ॥ ६॥
क्रोडस्तु पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।
शौरिः शनैश्चरो मन्दः पिप्पलादेन संयुतः ॥ ७॥
एतानि शनिनामानि प्रातरुत्थाय यः पठेत् ।
तस्य शौरेः कृता पीडा न भवति कदाचन ॥ ८॥
ध्वजनी धामनी चैव कङ्काली कलहप्रिया ।
कलही कण्टकी चापि अजा महिषी तुरङ्गमा ॥ ९॥
नामानि शनिभार्याया नित्यं जपति यः पुमान् ।
तस्य दुःखा विनश्यन्ति सुखसौभाग्यं वर्धते ॥ १०॥
इति ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशनिभार्या एवम् शनिस्तोत्रम्
READ
शनिभार्या एवम् शनिस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
