शनिमङ्गलस्तोत्रम् PDF संस्कृत
Download PDF of Shanimangalastotram Sanskrit
Shani Dev ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
शनिमङ्गलस्तोत्रम् संस्कृत Lyrics
|| शनिमङ्गलस्तोत्रम् ||
मन्दः कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रकः काश्यपः ।
स्वामी नक्रभकुम्भयोर्बुधसितौ मित्रे समश्चाऽङ्गिराः ॥ १॥
स्थानं पश्चिमदिक् प्रजापति यमौ देवौ धनुष्यासनः ।
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ २॥
प्रार्थना
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम् ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥
ॐ अनया पूजया शनैश्चरः प्रीयताम् ।
ॐ मन्दाय नमः ॐ घटनाथाय नमः ॐ शनैश्चराय नमः ।
ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः ॐ ॥
इति श्रीशनिमङ्गलस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशनिमङ्गलस्तोत्रम्
READ
शनिमङ्गलस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
