षण्मुख पंचरत्न स्तुति PDF

Download PDF of Shanmukha Pancharatna Stuti Marathi

MiscStuti (स्तुति संग्रह)मराठी

॥ षण्मुख पंचरत्न स्तुति ॥ स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवंतं भक्तानामुदयकरमंभोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिंदेवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ यः पक्षमनिर्वचनं याति समवलंब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ षण्मुखं हसन्मुखं सुखांबुराशिखेलनं सन्मुनींद्रसेव्यमानपादपंकजं...

READ WITHOUT DOWNLOAD
षण्मुख पंचरत्न स्तुति
Share This
Download this PDF