Misc

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम्

Shivakamasundarisahasranamastotra Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् ||

॥ पूर्वपीठिका ॥

यस्यास्सर्वं समुत्पन्नं चराचरमिदं जगत् ।
इदं नमो नटेशान्यै तस्यै कारुण्यमूर्तये ॥

कैलासाद्रौ सुखासीनं शिवं वेदान्तगोचरम् ।
सर्वविद्येश्वरं भूतिरुद्राक्षालङ्कृतं परम् ॥ १॥

सर्वलक्षणसम्पन्नं सनकादिमुनीडितम् ।
संसारारण्यदावाग्निं योगिराजं यतेन्द्रियम् ॥ २॥

मुकुटेन्दुसुधापूरलब्धजीवकशीर्षकम् ।
व्याघ्रचर्माम्बरधरं नीलकण्ठं कपर्दिनम् ॥ ३॥

सव्यहस्ते वह्निधरं मन्दस्मितमुखाम्बुजम् ।
ढक्कां च दक्षिणे हस्ते वहन्तं च त्रिलोचनम् ॥ ४॥

अभयं दक्षहस्तेन दर्शयन्तं मनोहरम् ।
डोलहस्तेन वामेन दर्शयन्तं पदाम्बुजम् ॥ ५॥

कुचितं दक्षपादेन तिष्ठन्तं मुसलोपरि ।
ब्रह्मविष्ण्वादिविनुतं वेदवेद्यं नटेश्वरम् ॥ ६॥

प्रणम्य पार्वती गौरी पप्रच्छ मुदितानना ।
सर्वलक्षणसम्पन्ना सर्वदा सर्वदा नृणाम् ॥ ७॥

पार्वत्युवाच –
शिव! शङ्कर! विश्वेश! महादेव! दयानिधे!
सर्वासां चैव देवीनां नामसाहस्रमुत्तमम् ॥ ८॥

पुरा प्रोक्तं सदानन्द ! मह्यं श्रीपतिपूजित ! ।
शिवकामसुन्दरीनाम्नां सहस्रं वद सुन्दर! ॥ ९॥

सद्यस्सम्पत्करं पुण्यं सर्वपापप्रणाशनम् ।
इत्युक्त्वा पार्वती देवी तुष्टाव नटनेश्वरम् ॥ १०॥

सत्यप्रबोधसुखसन्ततिरूप विश्व –
मायेन्द्रजालिकवरेण्य समस्तसाक्षिन् ।
सृष्टिस्थितिप्रलयहेतुकविष्णुरुद्र
श्रीमन्नटेश मम देहि करावलम्बम् ॥ ११॥

भूवारिवह्निपवनाम्बरचन्द्रसूर्य –
यज्वाष्टमूर्तिविमलीकृतविग्रहेदश ।
स्वाङ्घ्र्यम्बुजद्वयनिषस्तहृदां प्रसन्न !
श्रीमन्नटेश मम देहि करावलम्बम् ॥ १२॥

लिङ्गाकृते पशुपते गिरिजापते त्वं
नारायणेश गिरिवास विधीश शम्भो
भालाक्ष शङ्कर! महेश्वर मन्मथारे
श्रीमन्नटेश मम देहि करावलम्बम् ॥ १३॥

श्रीनीलकण्ठ शमनान्तक पञ्चवक्त्र
पञ्चाक्षरप्रिय परात्पर! विश्ववन्द्य ।
श्रीचन्द्रचूड गजवक्त्रपितः परेश
श्रीमन्नटेश मम देहि करावलम्बम् ॥ १४॥

गङ्गाधर प्रमथनाथ सदाशिवार्या –
जाने! जलन्धररिपो जगतामधीश ।
शर्वोग्र भर्ग मृड शाश्वत! शूलपाणे
श्रीमन्नटेश मम देहि करावलम्बम् ॥ १५॥

स्थाणो त्रिणेत्र शिपिविष्ट! महेश! तात
नारायणप्रिय कुमारगुरो कपर्दिन् ।
शम्भो! गिरीश! शिव लोकपते! पिनाकिन्
श्रीमन्नटेश मम देहि करावलम्बम् ॥ १६॥

खड्गाङ्गिन् अन्धकरिपो भव भीम रुद्र
देवेश! खण्डपरशो! करुणाम्बुराशे ।
भस्माङ्गराग परमेश्वर! विश्वमूर्ते
श्रीमन्नटेश देहि करावलम्बम् ॥ १७॥

विश्वेश्वरात्मक विवेकसुखाभिराम
श्रीवीरभद्र! मखहन्तरुमासहाय ।
वीरेश्वरैणकर शुभ्रवृषाधिरूढ
श्रीमन्नटेश मम देहि करावलम्बम् ॥ १८॥

एवं स्तुत्वा महादेवी पञ्चाङ्गं प्रणनाम ह ।
ततस्तुष्टो नटेशश्च प्रोवाच वचनं शुभम् ॥ १९॥

एवमेव पुरा देवी महालक्ष्मीः पतिव्रता ।
शङ्खचक्रगदापाणिः सर्वलोकहितावहः ॥ २०॥

धर्मसंस्थापनार्थायावतारान्युगे युगे ।
करिष्यति महा विष्णुः मम भर्ता दश श‍ृणु ॥ २१॥

मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामो दाशरथिश्चैव रामः परशुधारकः ॥ २२॥

हलभृत् बलरामश्च कृष्णः कल्किः दश स्मृताः ।
अवतारेषु दशसु मद्भर्तुर्नाशशङ्कया ॥ २३॥

प्राप्ता भवन्त शरणं भवानेव परा गतिः ।
इत्युक्त्वा च महालक्ष्मीर्भस्तानामिष्टदायकम् ॥ २४॥

वेदपादस्तवं चारु मधुरं मधुराक्षरम् ।
उक्त्वा तुष्टाव मुदिता नटेशानं महेश्वरम् ॥ २५॥

विघ्नेश्वरं वीतविरागसेवितम्
विधीन्द्रविष्ण्वादिनताङ्घ्रिपङ्कजम् ।
सभासदामाशु सुखार्थसिद्धिदं
गणानां त्वां गणपतिं हवामहे ॥ २६॥

नगेन्द्रतनयारम्यस्तन्यपानरताननम् ।
माणिक्यकुण्डलधरं कुमारं पुष्करस्रजम् ॥ २७॥

नमः शिवाय साम्बाय सगणाय ससूनवे ।
नमो ज्ञानसभेशाय दिशां च पतयेनमः ॥ २८॥

नमो ब्रह्मादिदेवाय विष्णुकान्ताय शम्भवे ।
पीताम्बराय च नमः पशुनां पतये नमः ॥ २९॥

सन्मार्गदाय शिष्टानामाश्रितानां द्विजन्मनाम् ।
अभक्तानां मोहदात्रे पथीनां पतये नमः ॥ ३०॥

अपस्मारमधः कृत्य नृत्यन्तं तस्य पृष्ठके ।
सर्वाभरणरम्यं तं पश्येम शरदश्शतम् ॥ ३१॥

सुन्दरं स्मेरवदनं नटराजमुमापतिम् ।
सम्पूज्य नृत्यपादं ते जीवेम शरदश्शतम् ॥ ३२॥

कुभीन्द्रदैत्यं हतवानिति शम्भुर्जगत्पतिः ।
श्रुत्वा ते कीर्तिममलां नन्दाम शरदश्शतम् ॥ ३३॥

मन्मथान्धकसंहारकथाश्रुतिमनोहरम् ।
श्रुत्वा ते विक्रमयुतं मोदाम शरदश्शतम् ॥ ३४॥

सर्वदुःखान्विहायाशु शिव तेऽङ्घ्रियुगाम्बुजम् ।
अर्चयन्तः सदा धन्या भवाम शरदश्शतम् ॥ ३५॥

त्वत्कीर्तनं सदा भक्त्या सर्वकल्मषनाशनम् ।
शङ्कराघहर स्वामिन् श‍ृणवाम शरदश्शतम् ॥ ३६॥

त्वच्चरित्रं पवित्रं च सर्वदारिद्र्यनाशनम् ।
अस्मत्पुत्रप्रणप्तॄणां प्रब्रवाम शरदश्शतम् ॥ ३७॥

त्वद्भक्तकल्पकतरुमाश्रयन्तस्सदा वयम् ।
इन्द्रियाघौघनिचयैरजीतास्स्याम शरदश्शतम् ॥ ३८॥

एवं स्तुत्वा महादेवी महालक्ष्मीर्मनोहरा ।
प्रणम्य चित्सभानाथं तिष्ठन्ती मुदितानना ॥ ३९॥

मन्माङ्गल्यस्य रक्षायै मन्त्रमेकं ममादिश ।
तां दृष्ट्वा च महादेवः प्रहसन्निदमब्रवीत् ॥ ४०॥

त्वं शीघ्रं गच्छ देवेशीं शिवकामां च सुन्दरीम् ।
तत्र गत्वा महेशानीं पूजय त्वं विशेषतः ॥ ४१॥

सहस्रकुसुमैः पद्मैः नैवेद्यैश्च मनोहरैः ।
इत्युक्त्वा परमप्रीतो भगवान्भक्तवत्सलः ॥ ४२॥

शिवकामसुन्दरीनाम्नां सहस्रं प्रजगाद ह ।
उपदिश्य च तां देवीं प्रेषयामास शङ्करः ॥ ४३॥

लक्ष्मीर्गत्वा महेशानीं शिवकामीं मुदान्विता ।
शिवोक्तेन प्रकारेण सहस्रैः पङ्कजैः क्रमात् ॥ ४४॥

नामभिश्च त्रितारैश्च युक्त्वैश्च सुमहत्तरैः ।
पूजयामास विधिवत् शिवाचिन्तनतत्परा ॥ ४५॥

तदा शिवः शोधनाय तस्याः चित्तं जगत्प्रभुः ।
आनीतेषु च पद्मेषु न्यूनमेकं चकार हि ॥ ४६॥

अतीव दुःखितालक्ष्मीः पूर्तिकामेच्छया स्वयम् ।
अभावपुष्पसम्पूर्त्यै नेत्रमुत्पाट्य वामकम् ॥ ४७॥

अर्चयामास लक्ष्मीश्च भक्त्या परमया युता ।
दृष्टेवदं सुन्दरीदेवी शिवकाममनोहरी ॥ ४८॥

पूर्वस्मादपि सौन्दर्यं नेत्रं दत्वाऽतिहर्षतः ।
तुष्टाऽहमिष्टं व्रियतां वरमित्याह शङ्करी ॥ ४९॥

तदा वव्रे महालक्ष्मीः सर्वलोकप्रियङ्करम् ।
सौमङ्गल्यं कुरु मम दीर्घं च भवतु धुवम् ।
तथा भवतु भद्रं ते विष्णुं गच्छ यथासुखम् ॥ ५०॥

इत्युक्त्वाऽन्तर्दधे देवी शिवकामी महेश्वरी ।
लक्ष्मीश्च विष्णुं गत्वाऽथ यथापूर्वं स्थितोरसि ॥ ५१॥

तादृशं नामसाहस्रं शिवकाम्याः मनोहरम् ।
वदामि श‍ृणु हे देवीनामसाहस्रमुत्तमम् ॥ ५२॥

ऋषिः छन्दो देवता च बीजं शक्तिश्च कीलकम् ।
कराङ्गन्यासकौ पूर्वं सुरहस्यं महेश्वरि ॥ ५३॥

नाम्नां त्रिपुरसुन्दर्याः यत्प्रोस्तं तद्वदेव हि ।
शिवकामसुन्दरीप्रीत्यै विनियोगो जपे स्मृतः ॥ ५४॥

दिग्बन्धं ततो ध्यायेत् शिवकामीं महेश्वरीम् ।
ततश्च पञ्चपूजा च कर्तव्या मनुजापिना ॥ ५५॥

ततः परं स्तोत्रमेतज्जप्तव्यं भद्रकामिना ।
स्तोत्रान्ते च प्रकर्तव्यमङ्गन्यासं च पूर्ववत्त् ॥ ५६॥

कृत्वा च दिग्विमोकं च ततोध्यायेच्च सुन्दरीम् ।
लमित्यादिममन्त्रैश्च पञ्चपूजां च संवदेत् ॥ ५७॥

ॐ अस्य श्री शिवकामसुन्दरीसहस्रनामस्तोत्रमहा
मन्त्रस्य । आनन्दभैरवदक्षिणामूर्तिः ऋषिः । देवी गायत्री
छन्दः । श्रीशिवकामसुन्दरी देवता । बीजं शक्तिः कीलकं
कराङ्गन्यासौ च श्रीमहात्रिपुरसुन्दरीमहामन्त्रवत् ।

॥ ध्यानम् ॥

पद्मस्थां कनकप्रभां परिलसत्पद्माक्षियुग्मोत्पलाम्
अक्षस्रक्षुकशारिकाकटिलसत् कल्हार हस्ताब्जिनीम् ।
रक्तस्रक्सुविलेपनाम्बरधरां राजीवनेत्रार्चितां
ध्यायेत् श्रीशिवकामकोष्ठनिलयां नृत्तेश्वरस्य प्रियाम् ॥

मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताण्टङ्कयुक्तां
अक्षस्रक्पुष्पहस्ता सशुककटिकरां चन्द्रचूडां त्रिनेत्रीम् ।
नानालङ्कारयुक्तां सुरमकुटमणिद्योतित स्वर्णपीठां
यासापद्मासनस्थां शिवपदसहितां सुन्दरीं चिन्तयामि ॥

रत्नताटङ्कसंयुक्तां सुवर्णकवचान्विताम् ।
दक्षिणोर्ध्वकराग्रेण स्वर्णमालाधरां शुभाम् ॥

दक्षाधः करपद्मेन पुल्लकल्हार धारिणीम् ।
वामेनोएध्वकराब्जेन शुकार्भकधरां वराम् ।
कटिदेशे वामहस्तं न्यस्यन्तीं च सुदर्शनाम् ॥

शिवकामसुन्दरीं नौमि प्रसन्नवदनां शिवाम् ।
लमित्पादिपञ्चपूजा ॥

॥ श्री शिवकामसुन्दरीसहस्रनामस्तोत्रम् ॥

ॐ ऐं ह्रीं श्रीं अं – १॥

अगण्याऽगण्यमहिमाऽसुरप्रेतासनस्थिता ।
अजराऽमृत्युजननाऽप्यकालान्तक भीकरा ॥ १॥

अजाऽजांशसमुद्भूताऽमरालीवृतगोपुरा ।
अत्युग्राजिनटच्छत्रुकबन्धानेककोटिका ॥ २॥

अद्रिदुर्गाऽणिमासिद्धिदापितेष्टामरावलिः ।
अनन्ताऽनन्यसुलभप्रियाऽद्भुतविभूषणा ॥ ३॥

अनूरुकरसङ्काशाऽखण्डानन्दस्वरूपिणी ।
अन्धीकृतद्विजारातिनेत्राऽत्युग्राट्टहासिनी ॥ ४॥

अन्नपूर्णाऽपराऽलक्ष्याऽम्बिकाऽघविनाशिनी ।
अपारकरुणापूरनिभरेखां जनाक्षिणी ॥ ५॥

अमृताम्भोधिमध्यस्थाऽणिमासिद्धिमुखाश्रिता ।
अरविन्दाक्षमालालिपात्रशूलधराऽनघा ॥ ६॥

अश्वमेधमखावाप्तहविःपुजकृतादरा ।
अश्वसेनावृताऽनेकपारूढाऽप्यगजन्मभूः ॥ ७॥

ओं ऐं ह्रीं श्रीं आं – २॥

आकाशविग्रहाऽऽनन्ददात्री चाज्ञाब्जभासुरा ।
आचारतत्परस्वान्तपद्मसंस्थाऽऽढ्यपूजिता ॥ ८॥

आत्मायत्तजगच्चक्रा चात्मारामपरायणा ।
आदित्यमण्डलान्तस्था चादिमध्यान्तवर्जिता ॥ ९॥

आद्यन्तरहिताऽचार्या चादिक्षान्तार्णरूपिणी ।
आद्याऽमात्युनुता चाज्यहोमप्रीताऽऽवृताङ्गना ॥ १०॥

आधारकमलारूढा चाधाराधेयविवर्जिता ।
आधिहीनाऽऽसुरीदुर्गाऽऽजिसङ्क्षोभितासुरा ॥ ११॥

आधोरणाज्ञाशुण्डाग्राकृष्टासुरगजावृता ।
आश्चर्यवियहाऽऽचार्यसेविताऽऽगमसंस्तुता ॥ १२॥

आश्रिताखिलदेवादिवृन्दरक्षणतत्परा ।
ॐ ऐं ह्रीं श्रीं इं – ३॥

इच्छाज्ञानक्रियाशक्तिरूपेरावतिसंस्तुता ॥ १३॥

इन्द्राणीरचितश्वेतच्छत्रेडाभक्षणप्रिया ।
इन्द्राक्षीन्द्रार्चितेन्द्राणी चेन्दिरापतिसोदरी ॥ १४॥

इन्दिरेन्दीवरश्यामा चेरम्मदसमप्रभा ।
इभकुम्भाभवक्षोजद्वया चेक्षुधनुर्धरा ॥ १५॥

इभदन्तोरुनयना चेन्द्रगोपसमाकृतिः ।
इभशुण्डोरुयुगलाचेन्दुमण्डलमध्यगा ॥ १६॥

इष्टार्तिघ्नीष्टवरदा चेभवक्त्रप्रियङ्करी ।
ॐ ऐं ह्रीं श्रीं ईं – ४॥

ईशित्वसिद्धिसम्प्रार्थितापसेषत्स्मितानना ॥ १७॥

ईश्वरीशप्रिया चेशताण्डवालोकनोन्तुका ।
ईक्षणोत्पन्नभुवनकदम्बा चेड्यवैभवा ॥ १८॥

ॐ ऐं ह्रीं श्रीं उं – ५॥

उच्चनीचादिरहिताऽप्युरुकान्तारवासिनी ।
उत्साहरहितेन्द्रारिश्चोरुसन्तोषितामरा ॥ १९॥

उदासीनोडुरावक्त्राऽप्युग्रकृत्यविदूषणी ।
उपाधिरहितोपादानकारणोन्मत्तनृत्तकी ॥ २०॥

उरुस्यन्दनसम्बद्धकोट्यश्वोरुपराक्रमा ।
उल्कामुखी ह्युमादेवी चोन्मत्तक्रोधभैरवी ॥ २१॥

ॐ ऐं ह्रीं श्रीं ऊं – ६॥

ऊर्जितज्ञोढभुवनकदम्बोर्ध्वमुखावलिः ।
ऊर्ध्वप्रसारिताङ्घ्रीशदर्शनोद्विग्रमानसा ॥ २२॥

ऊहापोहविहीनोरुजितरम्भामनोहरा ।
ॐ ऐं ह्रीं श्रीं ऋं – ७॥

ऋग्वेदसंस्तुता ऋद्धिदायिनी ऋणमोचिनी ॥ २३॥

ऋजुमार्गपरप्रीता ऋषभध्वजभासुरा ।
ऋद्धिकाममुनिव्रातसत्रयागसमर्चिता ॥ २४॥

ॐ ऐं ह्रीं श्रीं ॠं – ८॥

ॠकारवाच्या ॠक्षादिवृता ॠकारनासिका ।
ॐ ऐं ह्रीं श्रीं लृं – ९॥

लृकरिणी लृकारोष्ठा
ॐ ऐं ह्रीं श्रीं लॄं – १०॥

लॄवर्णाधरपल्लवा ॥ २५॥

ॐ ऐं ह्रीं श्रीं एं – ११॥

एकाकिन्येकमन्त्राक्षरैधितोत्साहवल्लभा ।
ॐ ऐं ह्रीं श्रीं ऐं – १२॥

ऐश्वर्यदात्री
ॐ ऐं ह्रीं श्रीं ओं – १३॥

चोङ्कारवादिवागीशसिद्धिदा ॥ २६॥

ओजःपुञ्जघनीसान्द्ररूपिण्योङ्कारमध्यगा ।
ओषधीशमनुप्रीता
ॐ ऐं ह्रीं श्रीं औं – १४॥

चौदार्यगुपावारिधिः ॥ २७॥

औपम्यरहिताचैव
ॐ ऐं ह्रीं श्रीं अं – १५॥

अम्बुजासनसुन्दरी ।
अम्बराधीशनटनसाक्षिणी
ॐ ऐं ह्रीं श्रीं अः – १६॥

अः पददायिनी ॥ २८॥

ॐ ऐं ह्रीं श्रीं कं – १७॥

कबरीबन्धमुखरीभमरभ्रमरालका ।
करवाललताधाराभीषणा कौमुदीनिभा ॥ २९॥

कर्पूराम्बा कालरात्रिः काली कलिविनाशिनी ।
कादिविद्यामयी काम्या काञ्चनाभा कलावती ॥ ३०॥

कामेश्वरी कामराजमनुप्रीता कृपावती ।
कार्तवीर्यद्विसाहस्रदोर्दण्डपटहध्वनिः ॥ ३१॥

किटिवक्त्राधिकारोद्यद्गणप्रोत्साहिताङ्गना ।
कीर्तिप्रदा कीर्तिमती कुमारी कुलसुन्दरी ॥ ३२॥

कुन्तायुधधरा कुब्जिकाम्बा कुध्रविहारिणी ।
कुलागमरहस्यज्ञवाञ्छादानपरायणा ॥ ३३॥

कूटस्थितिजुषी कूर्मपृष्ठजित्प्रपदान्विता ।
केकाशब्दतिरस्कारिबाणासनमणीरवा ॥ ३४॥

केशाकेशिचणा केशिराक्षसाधिपमर्दिनी ।
कैतकच्छदसन्ध्याभपिशङ्गितकचाम्बुदा ॥ ३५॥

कैलासोत्तुङ्गश‍ृङ्गाद्रविलासेशपराजिता ।
कैशिक्यारभटीरीतिस्तुतरक्तेश्वरीप्रिया ॥ ३६॥

कोकाहितकरस्पर्धिनखा कोकिलवादिनी ।
कोपहुङ्कारसन्त्रस्तससेनासुरनायका ॥ ३७॥

कोलाहलरवोद्रेकरिङ्खज्जम्बुकमण्डला ।
कौणिडन्यान्वयसम्भूता करिचर्माम्बरप्रिया ॥ ३८॥

कौपीनशिष्टविप्रर्षिस्तुता कौलिकदेशिका ।
कौसुम्भास्तरणा कौलमार्गनिष्ठान्तरास्थिता ॥ ३९॥

कङ्कणाहिगणक्षेमवचनोद्विग्नतार्क्ष्यका ।
कञ्जाक्षी कञ्जविनुता कञ्जजातिप्रियङ्करी ॥ ४०॥

ॐ ऐं ह्रीं श्रीं खं – १८॥

खड्गखेटकदोर्दण्डा खट्वाङ्गी खड्गसिद्धिदा ।
खण्डितासुरगर्वाद्रिः खलादृष्टस्वरूपिणी ॥ ४१॥

खण्डेन्दुमौलिहृदया खण्डितार्केन्दुमण्डला ।
खरांशुतापशमनी खस्था खेचरसंस्तुता ॥ ४२॥

खेचरी खेचरीमुद्रा खेचराधीशवाहना ।
खेलापारावतरतिप्रीता खाद्यायितान्तका ॥ ४३॥

ओं ऐं ह्रीं श्रीं गं – १९॥

गगना गगनान्तस्था गगनाकारमध्यमा ।
गजारूढा गजमुखी गाथागीतामराङ्गना ॥ ४४॥

गदाधरी गदाऽऽधातमूर्छितानेकपासुरा ।
गरिमालघिमासिद्धिवृता ग्रामादिपालिनी ॥ ४५॥

गर्विता गन्धवसना गन्धवाहसमर्चिता ।
गर्वितासुरदाराश्रुपङ्किताजिवसुन्धरा ॥ ४६॥

गायत्री गानसन्तुष्टा गन्धर्वाधिपतीडिता ।
गिरिदुर्गा गिरीशानसुता गिरिवराश्रया ॥ ४७॥

गिरीन्द्रक्रूरकठिनकर्षद्धलवरायुधा ।
गीतचारित्रहरितशुकैकगतमानसा ॥ ४८॥

गीतिशास्त्रगुरुः गीतिहृदया गीर्गिरीश्वरी ।
गीर्वाणदनुजाचार्यपूजिता गृध्रवाहना ॥ ४९॥

गुडपायससन्तुष्टहृद्यप्ततरयोगिनी ।
गुणातीता गुरुर्गौरी गोप्त्री गोविन्दसोदरी ॥ ५०॥

गुरुमूतिर्गुणाम्भोधिर्गुणागुणविवर्जिता ।
गुहेष्टदा गुहावासियोगिचिन्तितरूपिणी ॥ ५१॥

गुह्यागमरहस्यज्ञा गुह्यकानन्ददायिनी ।
गुह्या गुह्यार्चिता गुह्यस्थानबिन्दुस्वरूपिणी ॥ ५२॥

गोदावरीनदीतीरवासिनी गुणवर्जिता ।
गोमेदकमणीकर्णकुण्डला गोपपालिनी ॥ ५३॥

गोसवासक्तहृदया गोश‍ृङ्गध्यानमोदिनी ।
गङ्गागर्वङ्कषोद्युक्तरुद्रप्रोत्साहवादिनी ॥ ५४॥

गन्धर्ववनितामालामोदिनी गर्वनाशिनी ।
गुञ्जामणिगणप्रोतमालाभासुरकन्धरा ॥ ५५॥

ओं ऐं ह्रीं श्रीं घं – २०॥

घटवाद्यप्रिया घोरकोणपघ्नी घटार्गला ।
घटिका घटिकामुख्यषट्पारायणमोदिनी ॥ ५६॥

घण्टाकर्णादिविनुता घनज्योतिर्लतानिभा ।
घनश्यामा घटोत्भूततापसात्मार्थदेवता ॥ ५७॥

घनसारानुलिप्ताङ्गी घोणोद्धृतवसुन्धरा ।
घनस्फटिकसङ्क्लृप्तसालान्तरकदम्बका ॥ ५८॥

घनाल्युद्भेदशिखरगोपुरानेकमन्दिरा ।
घूर्णीताक्षी घृणासिन्धुः घृणिविद्या घटेश्वरी ॥ ५९॥

घृतकातिन्यहृद्धण्टामणिमालाप्रसाधना ।
घोरकृत्या घोरवाद्या घोराघौघविनाशिनी ॥ ६०॥

घोराघनकृपायुक्ता घननीलाम्बरान्विता ।
घोरास्या घोरशूलाग्रप्रोतासुरकलेवरा ॥ ६१॥

घोषत्रस्तान्तकभटा घोरसङ्घोषकृद्बला ।
ॐ ऐं ह्रीं श्रीं ङं – २१॥

ङान्तार्णाद्यमनुप्रीता ङाकाराडीम्परायणा ॥ ६२॥

ङीकारिममञ्जुमञ्जीरचरणा ङाङ्कित्ताङ्गुलिः ।
ओं ऐ ह्रीं श्रीं चं – २२॥

चक्रवर्तिसमाराध्या चक्रनेमिरवोन्तुका ॥ ६३॥

चण्डमार्ण्डधिक्कारिप्रभा चक्राधिनायिका ।
चण्डालास्यपरामोदा चण्डवादपटीयसी ॥ ६४॥

चण्डिका चण्डकोदण्डा चण्डघ्नी चण्डभैरवी ।
चतुरा चतुराम्नायशिरोलक्षितरूपिणी ॥ ६५॥

चतुरङ्गबलोपेता चराचरविनोदिनी ।
चतुर्वक्त्रा चक्रहस्ता चक्रपाणिसमर्चिता ॥ ६६॥

चतुष्षष्टिकलारूपा चतुष्षष्यचर्चनोस्तुका ।
चन्द्रमण्डलन्ध्ययस्था चतुर्वर्गफलप्रदा ॥ ६७॥

चमरीमृगयोद्युक्ता चिरञ्जीवित्वदायिनी ।
चम्पकाशोकस्रद्बद्धचिकुरा चरुभक्षिणी ॥ ६८॥

चराचरजगद्धात्री चन्द्रिकाधवलस्मिता ।
चर्माम्बरधरा चण्डक्रोधहुङ्कारभीकरा ॥ ६९॥

चाटुवादप्रिया चामीकरपर्वतवासिनी ।
चापिनी चापमुक्तेषुच्छन्नदिग्भ्रान्तपन्नगा ॥ ७०॥

चित्रभानुमुखी चित्रसेना चित्राङ्गदेष्टदा ।
चित्रलेखा चिदाकाशमध्यगा चिन्तितार्थदा ॥ ७१॥

चिन्त्या चिरन्तनी चित्रा चित्राम्बा चित्तवासिनी ।
चैतन्यरूपा चिच्छक्तिश्चिदम्बरविहारिणी ॥ ७२॥

चोरघ्नी चीर्यविमुखा चतुर्दशमनुप्रिया ।
ओं ऐं ह्रीं श्रीं छं – २३॥

छत्रचामरभृल्लक्ष्मीवागिन्द्राणीरतीवृता ॥ ७३॥

छन्दश्शास्त्रमयी छन्दोलक्ष्याच्छेदविवर्जिता ।
छन्दोरूपाछन्दगतिः छन्दश्शिरविहारिणी ॥ ७४॥

छद्महृत्छविसन्दीप्तसूर्यचन्द्राग्नितारका ।
छर्दिताण्डावलिश्छादिताकारा छिन्नसंशया ॥ ७५॥

छायापतिसमाराध्या छायाम्बा छत्रसेविता ।
छिन्नमस्ताबिका छिन्नशीर्षशत्रुश्छलान्तकी ॥ ७६॥

छेदितासुरजिह्वाग्रा छत्रीकृतयशस्विनी ।
ॐ ऐं ह्रीं श्रीं जं – २४॥

जगन्माता जगत्साक्षी जगद्योनिर्जगद्गुरुः ॥ ७७॥

जगन्माया जगन्त्वृन्दवन्दिता जयिनीजया ।
जनजाड्यप्रतापघ्नी जितासुरमहाव्रजा ॥ ७८॥

जननी जगदानन्ददात्री जह्नुसमर्चिता ।
जपमालावराभीतिमुद्रापुस्तकधारिणी ॥ ७९॥

जपयज्ञपराधीनहृदया जगदीश्वरी ।
जपाकुसुमसङ्काशा जन्मादिध्वंसकारणा ॥ ८०॥

जालध्रपूर्णकामोड्याणचतुष्पीठरूपिणी ।
जीवनार्थिद्विजव्रातत्राणनाबद्धकङ्कणा ॥ ८१॥

जीवब्रह्मैकताकाङ्क्षि जनताकीर्णपार्वभूः ।
जम्भिनी जम्भभित्पूल्या जाग्रदादित्रयातिगा ॥ ८२॥

जलदग्रिधरा ज्वालाप्रोच्चकेशी ज्वरार्तिहृत् ।
ज्वालामालिनिका ज्वालामुखी जैमिनिसंस्तुता ॥ ८३॥

ॐ ऐं ह्रीं श्रीं झं – २५॥

झलञ्झलकृतस्वर्णमञ्जीरा झषलोचना ।
झषकुण्डलिनी झल्लरीवाद्यमुदितानना ॥ ८४॥

झषकेतुसमाराध्या झषमांसान्नभक्षिणी ।
झषोपद्रवकृद्धन्त्री झ्म्रूम्मन्त्राधिदेवता ॥ ८५॥

झञ्झानिलातिगमना झषराण्णीतसागरा ।
ॐ ऐं ह्रीं श्रीं ज्ञं – २६॥

ज्ञानमुद्राधरा ज्ञानिहृत्पद्मकुहरास्थिता ॥ ८६॥

ज्ञानमूर्तिज्ञनिगम्या ज्ञानदा ज्ञातिवर्जिता ।
ज्ञेया ज्ञेयादिरहिता ज्ञात्री ज्ञानस्वरूपिणी ॥ ८७॥

ओं ऐं ह्रीं श्रीं टं – २७॥

टङ्कपुष्पालिस्रङ्मञ्जुकन्धरा टङ्किताचला ।
टङ्कवेत्रादिकानेकशस्त्रभृद्दोर्लतावलिः ॥ ८८॥

ओं ऐ ह्रीं श्रीं ठं – २८॥

ठकारनिभवक्षोजद्वयाधोवृत्तभासुरा ।
ठकाराङ्कितजान्वग्रजितकोरकिताम्बुजा ॥ ८९॥

ओं ऐं ह्रीं श्रीं शं – २९॥

डाकिनी डामरीतन्त्ररूपा डाडिमपाटला ।
डम्बघ्नी डम्बराऽऽडम्बरोन्मुखी डमरुप्रिया ॥ ९०॥

डिम्बदानचणा डोलामुदिता डुण्ठिपूजिता ।
ओं ऐं ह्रीं श्रीं ढं – ३०॥

ढकानिनदसन्तुष्टशिखिनृत्तसमुत्सुका ॥ ९१॥

ओं ऐं ह्रीं श्रीं णं – ३१॥

णकारपञ्जरशुकी णकारोद्यानकोकिला ।
ओं ऐं ह्रीं श्रीं तं – ३२॥

तत्त्वातीता तपोलक्ष्या तप्तकाञ्चनसन्निभा ॥ ९२॥

तन्त्री तत्त्वमसीवाक्यविषया तरुणीवृता ।
तर्जन्यङ्गुष्ठसंयोगज्ञानब्रह्ममुनीश्वरा ॥ ९३॥

तर्जितानेकदनुजा तक्षकी तडितालिभा ।
ताम्रचूडध्वजोत्सङ्गा तापत्रयविनाशिनी ॥ ९४॥

ताराम्बा तारकी तारापूज्या ताण्डवलोलुपा ।
तिलोत्तमादिदेवस्त्रीशारीरोन्सुकमानसा ॥ ९५॥

तिल्वद्रुसङ्कुलाभोगकान्तारान्तरवासिनी ।
त्रयीद्विड्रसनारक्तपानलोलासिधारिणी ॥ ९६॥

त्रयीमयी त्रयीवेद्या त्र्यय्यन्तोद्गीतवैभवा ।
त्रिकोणस्था त्रिकालज्ञा त्रिकूटा त्रिपुरेश्वरी ॥ ९७॥

त्रिचत्वारिंशदश्राङ्कचक्रान्तर्बिन्दुसंस्थिता ।
त्रितारा तुम्बुरूद्गीता तार्क्ष्याकारा त्रिकाग्निजा ॥ ९८॥

त्रिपुरा त्रिपुरध्वंसिप्रिया त्रिपुरसुन्दरी ।
त्रिस्था त्रिमूर्तिसहजशक्तिस्त्रिपुरभैरवी ॥ ९९॥

ॐ ऐं ह्रीं श्रीं थं – ३३॥

थां थीकरमृदगादिभृद्विष्णुमुखसेविता ।
थां थीं तक्तक थिं तोकृत्तालध्वनिसभाङ्गणा ॥ १००॥

ॐ ऐं ह्रीं श्रीं दं – ३४॥

दक्षा दाक्षायणी दक्षप्रजापतिमखान्तकी ।
दक्षिणाचाररसिका दयासम्पूर्णमानसा ॥ १०१॥

दारिद्र्योन्मूलिनी दानशीला दोषविवर्जिता ।
दारुकान्तकरी दारुकारण्यमुनिमोहिनी ॥ १०२॥

दीर्घदंष्ट्रानना दीर्घरसनागीर्णदानवा ।
दीक्षिता दीक्षिताराध्या दीनसंरक्षणोद्यता ॥ १०३॥

दुःखाब्धिबडबा दुर्गा दुम्बीजा दुरितापहा ।
दुष्टदूरा दुराचारशमनी द्यूतवेदिनी ॥ १०४॥

द्विजावगूरणस्वान्तपिशितामोदिताण्डजा ।
ॐ ऐं ह्रीं श्रीं धं – ३५॥

धनदा धनदाराध्या धनदाप्तकुटुम्बिनी ॥ १०५॥

धराधरात्मजा धर्मरूपा धरणिधूर्धरा ।
धात्री धातृशिरच्छेत्री धीध्येया धुवपूजिता ॥ १०६॥

धूमावती धूम्रनेत्रगर्वसंहारिणी धृतिः ।
ॐ ऐं ह्रीं श्रीं नं – ३६॥

नखोत्पन्नदशाकारमाधवा नकुलीश्वरी ॥ १०७॥

नरनारायणस्तुत्या नलिनायतलोचना ।
नरास्थिस्रग्धरा नारी नरप्रेतोपरिस्थिता ॥ १०८॥

नवाक्षरीनाममन्त्रजपप्रीता नटेश्वरी ।
नादचामुण्डिका नानारूपकृन्नास्तिकान्तकी ॥ १०९॥

नादब्रह्ममयी नामरूपहीना नतानना ।
नारायणी नन्दिविद्या नारदोद्गीतवैभवा ॥ ११०॥

निगमागमसंवेद्या नेत्री नीतिविशारदा ।
निर्गुणा नित्यसन्तुष्टा नित्याषोडशिकावृता ॥ १११॥

नृसिंहदर्पशमनी नरेन्द्रगणवन्दिता ।
नौकारूढासमुत्तीर्णभवाम्भोधि निजाश्रिता ॥ ११२॥

ओं ऐं ह्रीं श्रीं पं – ३७॥

परमा परमं ज्योतिः परब्रह्ममयी परा ।
परापरमयी पाशबाणाङ्कुशधनुर्धरा ॥ ११३॥

पराप्रासादमन्त्रार्था पतञ्जलिसमर्चिता ।
पापघ्नी पाशरहिता पार्वती परमेश्वरी ॥ ११४॥

पुण्या पुलिन्दिनीपूज्या प्राज्ञा प्रज्ञानरूपिणी ।
पुरातना पराशक्तिः पञ्चवर्णस्वरूपिणी ॥ ११५॥

प्रत्यङ्गिराः पानपात्रधरा पीनोन्नतस्तनी ।
ओं ऐं ह्रीं श्रीं फं – ३८॥

फडर्णध्वस्तपापौघदासा फणिवरेडिता ॥ ११६॥

फणिरत्नासनासीनकामेशोत्सङ्गवासिनी ।
फलदा फल्गुनप्रीता फुल्लाननसरोरुहा ॥ ११७॥

फुल्लोत्तप्ताङ्गसाहस्रदलपङ्कजभासुरा ।
ओं ऐं ह्रीं श्रीं बं – ३९॥

बन्धूकसुमनोरागा बादरायणदेशिका ॥ ११८॥

बालाम्बा बाणकुसुमा बगलामुखिरूपिणी ।
बिन्दुचक्रस्थिता बिन्दुतर्पणप्रीतमानसा ॥ ११९॥

बृहत्सामस्तुता ब्रह्ममाया ब्रह्मर्षिपूजिता ।
बृहदैश्वर्यदा बन्धहीना बुधसमर्चिता ॥ १२०॥

ब्रह्मचामुण्डिका ब्रह्मजननी ब्राह्मणप्रिया ।
ब्रह्मज्ञानप्रदा ब्रह्मविद्या ब्रह्माण्डनायिका ॥ १२१॥

ब्रह्मतालप्रिया ब्रह्मपञ्चमञ्चकशायिनी । (??)
ब्रह्मादिविनुता ब्रह्मपत्नी ब्रह्मपुरस्थिता ॥ १२२॥

ब्राह्मीमाहेश्वरीमुख्यशक्तिवृन्दसमावृता ।
ओं ऐं ह्रीं श्रीं भं – ४०॥

भगाराध्या भगवती भार्गवी भार्गवार्चिता ॥ १२३॥

भण्डासुरशिरश्छेत्री भाषासर्वस्वदर्शिनी ।
भद्रा भद्रार्चिता भद्रकाली भर्गस्वरूपिणी ॥ १२४॥

भवानी भाग्यदा भीमा भामती भीमसैनिका ।
भुजङ्गनटनोद्युक्ता भुजनिर्जितदानवा ॥ १२५॥

भ्रुकुटीक्रूरवदना भ्रूमध्यनिलयस्थिता ।
भेतालनटनप्रीता भोगिराजाङ्गुलीयका ॥ १२६॥

भेरुण्डा भेदनिर्मुक्ता भैरवी भैरवार्चिता ।
ओं ऐं ह्रीं श्रीं मं – ४१॥

मणिमण्डपमध्यस्था माणिक्याभरणान्विता ॥ १२७॥

मनोन्मनी मनोगम्या महादेवपतित्रता ।
मन्त्ररूपा महाराज्ञी महासिद्धालिसंवृता ॥ १२८॥

मन्दरादिकृतावासा महादेवी महेश्वरी ।
महाहिधमेखला मार्गदुर्गा माङ्गल्यदायिनी ॥ १२९॥

महावतक्रतुप्रीता माणिभद्रसमर्चिता । (??)
महिषासुरशिरश्छेदनर्तकी मुण्डखमिडनी ॥ १३०॥

माता मरकटश्यामा मातङ्गी मतिसाक्षिणी । (??)
माधवी माधवाराध्या मधुमांसप्रिया मही ॥ १३१॥

मारी मारान्तक क्षोभकारिणी मीनलोचना ।
मालतीकुन्दमालाढ्या माषौदनसमुन्सुका ॥ १३२॥

मिथुनासक्तहृदया मोहिताशेषविष्टपा ।
मुद्रा मुद्राप्रिया मूर्खनाशिनी मेषभक्षिणी ॥ १३३॥

मूकाम्बा मुखजा मोदजनकालोकनप्रिया ।
मौनव्याख्यापरा मौनसत्यचिन्मात्रलक्षणा ॥ १३४॥

मौञ्जीकच्छधरा मौर्वीद्विरेफमुखरोन्मुखा ।
ओं ऐं ह्रीं श्रीं यं – ४२॥

यज्ञवृन्दप्रिया यष्ट्री यान्तवर्णस्वरूपिणी ॥ १३५॥

यन्त्ररूपा यशोदात्मजातसजुतवैभवा ।
यशस्करी यमाराध्या यजमानाकृतिर्यतिः ॥ १३६॥

याकिनी यक्षरक्षादिवृता यजनतर्पणा ।
याथार्थ्यविग्रहा योग्या योगिनी योगनायिका ॥ १३७॥

यामिनी यजमोत्साहा यामिनीचरभक्षिणी ।
यायजूकर्चितपदा यज्ञेशी यक्षिणीश्वरी ॥ १३८॥

यासापद्मधरा यासापद्मान्तरपरिष्कृता ।
योषाऽभयङ्करी योषिद्वृन्दवन्दितपादुका ॥ १३९॥

ॐ ऐं ह्रीं श्रीं रं – ४३॥

रक्तचामुण्डिका रात्रिदेवता रागलोलुपा ।
रक्तबीजप्रशमनी रजोगन्धनिवारिणी ॥ १४०॥

रणरगनटीरत्त्रमज्जीरचरणाम्बुजा ।
रजध्ववस्ताचला रागहीनमानसहंसिनी ॥ १४१॥

रसनालेपितक्रूररक्तबीजकलेवरा ।
रक्षाकरी रमा रम्या रञ्जिनी रसिकावृता ॥ १४२॥

राकिण्यम्बा रामनुता रमावाणीनिषेविता ।
रागालापपरब्रह्म शिरो मालाप्रसाधना ॥ १४३॥

राजराजेश्वरी राज्ञी राजीवनयनप्रिया ।
राजव्रातकिरीटांशुनीराजितपदाम्बुजा ॥ १४४॥

रुद्रचामुण्डिका रुक्मसदृशा रुधिरप्रिया ।
रुद्रताण्डवसामर्थ्यदर्शनोत्सुकमानसा ॥ १४५॥

रुद्राट्टहाससङ्क्षुभ्यज्जगन्तुष्टिविधायिनी ।
रुद्राणी रुद्रवनिता रुरुराजहितैषिणी ॥ १४६॥

रेणुका रेणुकासूनुस्तुत्या रेवाविहारिणी ।
रोगघ्नी रोषनिर्दग्धशत्रुसेनानिवेशिनी ॥ १४७॥

रोहिणीशांशुसम्भूतझरीरत्नवितानका ।
रौद्री रौद्रास्त्रनिर्दग्धराक्षसा राहुपूजिता ॥ १४८॥

ओं ऐं ह्रीं श्रीं लं – ४४॥

लघूक्तिवल्गुस्तिमितवाणीत्यक्तविपञ्चिका ।
लज्जावती ललत्प्रोच्चकेशा लम्बिपयोधरा ॥ १४९॥

लयादिकर्त्री लोमालिलतानाभीसरः कटी ।
ललदोष्ठदलद्वन्द्ववदना लक्ष्यदूरगा ॥ १५०॥

ललन्तिकामणीभास्वन्निटिलश्रीमुखाम्बुजा ।
ललाटार्धनिशानाथकलङ्कोद्भासिलोचना ॥ १५१॥

ललिता लोभिनी लोभहीना लोकेश्वरी लघुः ।
लक्ष्मीर्लक्ष्मीशसहजा लक्ष्मणाग्रजवन्दिता ॥ १५२॥

लाकिनी लघितापृभोधिनिवहा ललिताग्बिका ।
लाजहोमप्रिया लम्बमुक्ताभासुरनासिका ॥ १५३॥

लाभालाभादिरहिता लास्यदर्शनकोविदा ।
लावण्यदर्शनोद्विग्नरतीशा लधुभाषिणी ॥ १५४॥

लाक्षारसाञ्चितपदा लधुश्यामा लतातनुः ।
लाक्षालक्ष्मीतिरस्कारियुगलाधरपल्लवा ॥ १५५॥

लीलागतिपराभूतहंसा लीलाविनोदिनी ।
लीलानन्दनकल्पद्रुमलताडोलाविहारिणी ॥ १५६॥

लीलापीताब्धिविनुता लीलास्वीकृतवियहा ।
लीलाशुकोस्तिमुदिता लीलामृगविहारिणी ॥ १५७॥

लोकमाता लोकसृष्टिस्थितिसंहारकारिणी ।
लोकातीतपदा लोकवन्द्या लोकैकसाक्षिणी ॥ १५८॥

लोकातीताकृतिर्लब्धा मार्गत्यागपरान्तकी । (??)
लोकानुल्लङ्घितनिजशासना लब्धवियहा ॥ १५९॥

लोमावलि लता लम्बिस्तनयुग्मनतानना ।
लोलचित्तविदूरस्था लोमलम्ब्यण्डजालका ॥ १६०॥

लबितारिशिरोहस्ता लोकरक्षापरायणा ।
ॐ ऐं ह्रीं श्रीं वं – ४५॥

वनदुर्गा विन्ध्यदलवासिनी वामकेश्वरी ॥ १६१॥

वशिन्यादिस्तुता वह्निज्वालोद्गारिमुखी वरा ।
वक्षोजययुग्मविरहासहिष्णुकरशङ्करा ॥ १६२॥

वाङ्मनोतीतविषया वामाचारसमुत्सुका ।
वाजपेयाध्वरानन्दा वासुदेवेष्टदायिनी ॥ १६३॥

वादित्रध्वनिसम्भ्रान्तदिग्गजालिर्विधीडिता ।
वामदेववसिष्ठादिपूजिता वारिदप्रभा ॥ १६४॥

वामस्तनाश्लिष्द्धस्तपद्मशम्भुविहारिणी ।
वाराही वास्तुमध्यस्था वासवान्तः पुरेष्टदा ॥ १६५॥

वाराङ्गनानीतपूर्णकुम्भदीपालिमण्टपा ।
वारिजासनशीर्षालिमाला वार्धिसरोवरा ॥ १६६॥

वारितासुरदर्पश्रीः वार्धघ्नीमन्त्ररूपिणी ।
वार्ताली वारुणी विद्या वरुणारोग्यदायिनी ॥ १६७॥

विजया विजयास्तुत्या विरूपा विश्वरूपिणी ।
विप्रशत्रुकदम्बघ्नी विप्रपूज्या विषापहा ॥ १६८॥

विरिञ्चिशिक्षणोद्युक्तमधुकैटभनाशिनी ।
विश्वमाता विशालाक्षी विरागा वीशवाहना ॥ १६९॥

वीतरागवृता व्याघ्रपाद नृत्तप्रदर्शिनी ।
वीरभद्रहतोन्मत्तदक्षयज्ञाश्रितामरा ॥ १७०॥

वेदवेद्या वेदरूपा वेदाननसरोरुहा ।
वेदान्तविषया वेणुनादज्ञा वेदपूजिता ॥ १७१॥

वौषट्मन्त्रमयाकारा व्योमकेशी विभावरी । ??
वन्द्या वाग्वादिनी वन्यमांसाहारा वनेश्वरी ॥ १७२॥

वाञ्छाकल्पलता वाणी वाक्प्रदा वागधीश्वरी ।
ओं ऐं ह्रीं श्रीं शं – ४६॥

शक्तिवृन्दावृता शब्दमयी श्रीचक्ररूपिणी ॥ १७३॥

शबरी शबरीदुर्गा शरभेशच्छदाकृतिः ।
शब्दजालोद्भवढ्ढक्कारवासन्दिग्धतापसा ॥ १७४॥

शरणागतसन्त्राणपरायणपटीयसी ।
शशाङ्कशेखरा शस्त्रधरा शतमुखाम्बुजा ॥ १७५॥

शातोदरी शान्तिमती शरच्चन्द्रनिभानना ।
शापापनोदनचणा शङ्कादोषादिनाशिनी ॥ १७६॥

शिवकामसुन्दरी श्रीदा शिववामाङ्गवासिनी ।
शिवा श्रीदाननिपुणलोचना श्रीपतिप्रिया ॥ १७७॥

शुकादिद्विजवृन्दोक्तिस्तब्धमानसगीष्पतिः ।
शुक्रमण्डलसङ्काशमुक्तामाला शुचिस्मिता ॥ १७८॥

शुक्लदंष्ट्राग्रसन्दीप्तपातालभ्रान्तपन्नगा ।
शुभ्रासना शूरसेनावृता शूलादिनाशिनी ॥ १७९॥

शूकवृश्चिकनागाखुर्वृकह्रिंस्रालिसंवृता ।
शूलिनी शूलड्गाहिशङ्खचक्रगदाधरा ॥ १८०॥

शोकाब्धिशोषणोद्युक्तबडवा श्रोत्रियावृता ।
शङ्करालिङ्गनानन्दमेदुरा शीतलाम्बिका ॥ १८१॥

शङ्करी शङ्करार्धाङ्गहरा शाक्करवाहना ।
शम्भुकोपाग्निनिर्दग्धमदनोत्पादकेक्षणा ॥ १८२॥

शाम्भवी शम्भुहस्ताब्जलीलारुणकरावलिः ।
श्रीविद्या शुभदा शुभवस्त्रा शुम्भासुरान्तकी ॥ १८३॥

ओं ऐं ह्रीं श्रीं षं – ४७॥

षडाधाराब्जनिलया षाड्गुण्यश्रीप्रदायिनी ।
षडूर्मिघ्नि षडध्वान्तपदारूढस्वरूपिणी ॥ १८४॥

षट्कोणमध्यनिलया षडर्णा षान्तरूपिणी ।
षड्जादिस्वरनिर्मात्री षडङ्गयुवतीश्वरी ॥ १८५॥

षड्भावरहिता षण्डकण्टकी षण्मुखप्रिया ।
षड्सास्वादमुदिता षष्ठीशादिमदेवता ॥ १८६॥

षोढान्यासमयाकारा षोडशाक्षरदेवता ।
ओं ऐं ह्रीं श्रीं सं – ४८॥

सकला सच्चिदानन्दलक्षणा सौख्यदायिनी ॥ १८७॥

सनकादिमुनिध्येया सन्ध्यानाट्यविशारदा ।
समस्तलोकजननी सभानटनरञ्जिनी ॥ १८८॥

सरः पुलिनलीलार्थियुवतीनिवहोत्सुका ।
सरस्वती सुराराध्या सुरापानप्रियासुरा ॥ १८९॥

सरोजलविहारोद्यत्प्रियाकृष्टोत्तरांशुका ।
साध्या साध्यादिरीहता स्वतन्त्रा स्वस्तिरूपिणी ॥ १९०॥

साध्वी सङ्गीतरसिका सर्वदा सर्वमङ्गला ।
सामोद्गीतनिजानन्दमहिमालिस्सनातना ॥ १९१॥

सारस्वतप्रदा सामा संसारार्णवतारिणीम् ।
सावित्री सङ्गनिर्मुक्ता सतीशी सर्वतोमुखी ॥ १९२॥

साख्यतत्वज्ञनिवहव्यापिसाला सुखेश्वरी ।
सिद्धसङ्घावृता सान्ध्यवन्दिता साधुसत्कृता ॥ १९३॥

सिंहासनगता सर्वश‍ृङ्गाररसवारिधिः ।
सुधाब्धिमध्यनिलया स्वर्णद्वीपान्तरस्थिता ॥ १९४॥

सुधासिक्तालवालोद्यत्कायमानलतागृहा ।
सुभगा सुन्दरी सुभ्रूः समुपास्यत्वलक्षणा ॥ १९५॥

सुरदुसङ्कुलाभोगतटा सौदामिनीनिभा ।
सुरभीकेशसम्भ्रान्तद्विरेफमुखरान्विता ॥ १९६॥

सूर्यचन्द्रांशुधिक्कारिप्रभारत्नालिमण्डपा ।
सोमपानोद्भवामोदविप्रगीतापदानका ॥ १९७॥

सोमयागप्रिया सोमसूर्यवह्निविलोचना ।
सौगन्धिकमरुद्वेगमोदिता सद्विलासिनी ॥ १९८॥

सौन्दर्यमोहिताधीनवल्लभा सन्ततिप्रदा ।
सौभाग्यमन्त्रिणी सत्यवादा सागरमेखला ॥ १९९॥

स्वश्वासोच्छवासभुवनमोचनोन्मोचना स्वधा ।
ॐ ऐं ह्रीं श्रीं हं – ४९॥

हयारूढा हयग्रीवविनुता हतकिल्बिषा ॥ २००॥

हरालिङ्गनशीतांशून्मिषन्नेत्रमुद्वती ।
हरिनाभिसमुद्भूतविरिञ्चिविनुता हरा ॥ २०१॥

हादिविद्या हानिहीना हाकिनी हरिचण्डिका ।
हारावलिप्रभादीप्त हरिदन्तदिगम्बरा ॥ २०२॥

हालाहलविषोद्विग्रविष्टापानेकरक्षकी ।
हाहाकाररवोद्गीतदनुजा हारमञ्जुला ॥ २०३॥

हिमाद्रितनया हीरमकुटा हारपन्नगा ।
हुताशनधरा होमप्रिया होत्री हयेश्वरी ॥ २०४॥

हेमपद्मधरा हेमवर्मराजसमर्चिता ।
हंसिनी हंसमन्त्रार्था हंसवाहा हराङ्गभृत् ॥ २०५॥

हृद्या हृद्यमनोनित्यवासा हरकुटुम्बिनी । (??)
ह्रीमतिः हृदयाकाशतरणिः ह्रिम्परायणा ॥ २०६॥

ॐ ऐं ह्रीं श्रीं क्षं – ५०॥

क्षणदाचरसंहारचतुरा क्षुद्रदुर्मुखा ।
क्षणदार्च्या क्षपानाथसुधार्द्रकबरी क्षितिः ॥ २०७॥

क्षमा क्षमाधरसुता क्षामक्षोभविनाशिनी ।
क्षिप्रसिद्धिम्प्रदा क्षिप्रगमना क्षुण्णिवारिणी ॥ २०८॥

क्षीणपुण्यासुहृत् क्षीरवर्णा क्षयविवर्जिता ।
क्षीरान्नाहारमुदिता क्ष्म्र्यूम्मन्त्राप्तेष्टयोगिराट् ॥ २०९॥

क्षीराब्धितनया क्षीरघृतमध्वासवार्चिता ।
क्षुधार्तिदीनसन्त्राणा क्षितिसंरक्षणक्षमा ॥ २१०॥

क्षेमङ्करी क्षेत्रपालवन्दिता क्षेत्ररूपिणी ।
क्षौमाम्बरधरा क्षत्रसम्प्रार्थितजयोत्सवा ॥ २११॥

क्ष्वेलभुग्रसनास्वाद जात वाग्रसवैभवा ।

इति श्रीभृङ्गिरिटिसंहितायां शक्त्युत्कर्षप्रकरणे
शिवगौरीसंवादे श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रं सम्पूर्णम्

॥ उत्तरपीतिका ॥

इत्येतत्ते मयाऽऽख्यातं नाम साहस्रमुत्तमम् ।
शिवकामसुन्दरीदेव्याः शिवायाः परमेश्वरि ॥ १॥

चतुर्वेदस्य तात्पर्यसारभूतं सुखप्रदम् ।
सहस्रनामक स्तोत्ररत्नाभिधमिदं प्रिये ।
श्रुत्यन्तवाक्यनिचयबद्धं शीघ्रप्रसिद्धिदम् ॥ २॥

आयुरारोग्यदं पुण्यवर्धनं भुक्तिमुक्तिदम् ।
विघ्नवारणविघ्नेशं संसारध्वान्तभास्करम् ॥ ३॥

शोककान्तारदावाग्निमज्ञानाब्धिघटोद्भवम् ।
रोगपर्वतदभ्भोलिं शत्रुवर्गाहितार्क्ष्यकम् ॥ ४॥

सर्वविद्याप्रदं नॄणां तुष्टिदं पुष्टिदं प्रिये ।
भूताः प्रेताः पिशाचाश्च ब्रह्मरक्षोगणोरगाः ॥ ५॥

जटामुनिगणाः क्षुद्रज्वरकृद्ग्रहमण्डलाः ।
कोटरारेवतीज्येष्ठापूतनामातृकादयः ॥ ६॥

महाज्वरकराश्चान्ये भेतालाग्निधराश्शिवे ।
अपस्मारादिमाश्चान्ये दृष्टा हिंसाराराश्शिवे ॥ ७॥

राक्षसा मनुजा यज्ञविघ्नभूताश्च पन्नगाः ।
सालुवाः शरभाः सिंहाः व्याघ्रा ऋक्षा गजा वृषाः ।
शाक्करा महिषाच्छगाः गवयावृकजम्बुकाः ।
अन्ये वन्या मृगा देवि हिंसकाश्शूकवृश्चिकाः ॥ ९॥

अण्डजास्स्वेदजा देवि चोद्भिदाश्च जरायुजाः ।
ये ये हिंसाकरास्सर्वे नामसाहस्रजापिनम् ॥ १०॥

दृष्ट्वा भीत्या परिभ्रान्ताः स्खलन्तश्च विदूरतः ।
पतन्तश्च पलायन्ते प्राणत्राणपरायणाः ॥ ११॥

अम्बिकानामसाहस्रजपशीलस्य योगिनः ।
द्रव्याणि योऽपहरते तं भक्षयति योगिनी ॥ १२॥

शिवकामसुन्दरीभस्तिशालिनं द्वेष्टि यो नरः ।
तं नाशयति सा देवी सपुत्रगणबान्धवम् ॥ १३॥

शिवकामसुन्दरीभक्ते चाभिचारादिदुष्कृतिम् ।
यः प्रेरयति मूढात्मा तं देवी शिवसुन्दरी ॥ १४॥

मुखाग्निज्वालया देवी दाहयत्यञ्जसा धुवम् ।
अनेन सदृशं स्तोत्रं नास्ति नास्त्यद्रिकन्यके ॥ १५॥

एतत्स्तोत्रजपेनैव विष्णुर्लक्ष्मीश्वरोऽभवत् ।
जगद्रक्षककर्तृत्वं ब्रह्मणो वेधसः प्रिये ॥ १६॥

सृष्टिकर्तृत्वमप्यम्बे वेदानां च विधायकः ।
अभूदन्येऽमराश्चैव वह्नीन्द्रयमराक्षसाः ॥ १७॥

जलवाय्वीशधनदाः योगिनश्च महर्षयः ।
जपादस्य स्वयं सिद्धिं लेभिरे सततं शिवे ॥ १८॥

मम शक्तिमयी त्वं हि देवी सा कामसुन्दरी ।
तस्याः प्रभावं नान्येन वस्तुं शक्यं हि सुन्दरि! ॥ १९॥

त्वयैव चिन्तनीयं तत् त्वत्तो नान्यास्ति हि प्रिया ।
एतन्नामसहस्रस्य जपे त्रैवर्णिकः प्रिये ॥ २०॥

मयाधिक्रियतेऽन्येषां च भवेदधिकारता ।
अन्ये तु पाठयेद्विप्रैः लभेरन्दवेष्टकामनाम् ॥ २१॥

यो विप्रश्शान्तहृदयः नामसाहस्रमुत्तमम् ।
जपति श्रद्धया युक्तः सर्वान्कामानवाप्नुयात् ॥ २२॥

शुक्रवारे सौमवारे भौमवारे गुरोर्दिने ।
दर्शे पर्वणि पञ्चम्यां नवम्यां कुलसुन्दरि ॥ २३॥

कृष्णाङ्गारचतुर्दश्यां सङ्क्रान्तावयने विषौ ।
वृषे शुक्लनवम्यां च श्रावण्यां मूलभे शुभे ॥ २४॥

आषाढे च तुलायां च नक्षत्रे पूर्वफल्गुने ।
ज्येष्ठे च फाल्गुने मासि उत्तरे फल्गुने शुभे ॥ २५॥

नक्षत्रे च शुभां देवीं गौरीनामभिरम्बिकाम् ।
अर्चयेत्सततं प्रीता सुन्दरी भवति प्रिये ॥ २६॥

प्रतिपन्मुखराकान्तदिनरात्रिषु चाम्बिकाम् ।
अर्चयेत्कुसुमैर्बिल्वैः हारिद्रैः कुकुमैः शुभैः ॥ २७॥

हरिद्राचूर्णसम्पृक्तैरक्षतैर्तुलसीदलैः ।
केसरैः केतकैश्चैव मन्दारैश्चम्पकैरपि ॥ २८॥

प्रथमं गन्धतैलेनाभिषिच्य ततः परम् ।
पयसा मधुना दघ्ना घृतेन लिकुचेन च ॥ २९॥

नारिकेलाम्रपनसकदलीनां फलत्रयम् ।
शर्करामधुसम्पृक्तं पञ्च्जामृतमथाम्बिकाम् ॥ ३०॥

अभिषिच्य ततः पश्चात्सगन्धीश्चन्दनैः शुभैः ।
अन्नैश्च कुङ्कुमैश्चैव फलानां च रसैस्तथा ॥ ३१॥

गङ्गाम्बुभिस्ततः कुर्यात्वासितैः सलिलैश्शुभैः ।
सम्यगुन्मार्ज्य वस्त्रैश्च पीताम्बरमुखैः शिवैः ॥ ३२॥

आच्छाद्य कञ्चुकैश्चैवालङ्कृत्याभरणैस्सुमैः ।
शुद्धान्नैः पायसान्नैश्च रसखण्डान्नैश्च भक्ष्यकैः ॥ ३३॥

गुडान्नेः पायसापूपैर्माषापूपैश्च लेह्यकैः ।
खाद्यैश्च विविधैरन्नैः चित्रान्नैश्च विशेषतः ॥ ३४॥

लड्डुकैर्मोदकैश्चापि करम्भैश्च शरावकैः ।
फलैश्च विविधैश्चापि कुर्यान्नैवेद्यमादरात् ॥ ३५॥

षोडशैरुपचारैश्च पूजयेच्छिवसुन्दरीम् ।
सुवासिनीः कन्यकाश्च वस्त्रान्नैश्च प्रपूजयेत् ॥ ३६॥

एभिर्नामभिरेवैतां मूर्ते यन्त्रे घटेऽपि वा ।
आवाह्याभ्यर्च्ययेद्देवीं जपेद्वा सन्निधौ स्तुतिम् ॥ ३७॥

यं यं कामयते शीघ्रं तं तं प्राप्नोत्यसंशयः ।
विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्नुयात् ॥ ३८॥

कन्यार्थी लभते कन्यां अप्सरस्सदृशीं शिवे ।
धनार्थी लभते शीघ्रं धनं भूरि महेश्वरि ॥ ३९॥

श्रीविद्योपास्तिशीलानामात्मरक्षार्थमादरात् ।
शत्रुनिर्घातनार्थञ्च स्वदासानुग्रहाय च ॥ ४०॥

जप्तव्यं सततं भद्रे श्रुतिवद्वाग्यतश्शुचिः ।
सर्वमन्त्राधिकारत्वात् श्रीविद्योपासकस्य तु ॥ ४१॥

गुरुं स्वयं जप्यं विना सुन्दर्येवास्य देशिका ।
तेषामेव विधिः प्रोक्तो नान्येषां मेनकात्मन्ते ॥ ४२॥

उपदेशादेव च गुरोः जप्तव्यं शिवभाषितम् ।
श्रीचक्रपुरसमाजस्त्रिपुरातुष्टिकारणम् ॥ ४३॥

तत्त्वमस्यादिवाक्यार्थपरब्रह्मपदप्रदम् ।
शिवज्ञानप्रदं देवि शीघ्रसिद्धिकरं परम् ॥ ४४॥

श्रौतस्मार्तादिकर्मादौ भक्त्येदं यो जपेत्प्रिये ।
अविघ्नेन च तत्कर्म साफल्यं चैति निश्चयः ॥ ४५॥

युद्धे प्रयाणे दुर्द्धर्षे स्वप्ने वाते जले भये ।
जप्तव्यं सततं भद्रे तत्तच्छान्त्यै महेश्वरि ॥ ४६॥

तत्तन्मातृकया पुस्तं त्रितारेण समन्वितम् ।
स्तोत्रमेतज्जपेद्देवीमर्चयेच्च विशेषतः ॥ ४७॥

सदा तस्य हृदम्भोजे सुन्दरी वसति धुवम् ।
अणिमादिमहासिद्धीः लभते नात्र संशयः ॥ ४८॥

अश्वमेधादिभिर्यज्ञैः यत्फलं तत् सुदुर्लभम् ।
अणिमादिममहासिद्धीः लभते नात्र संशयः ॥ ४९॥

एभिर्नामभिरेवं यः कालीं दुर्गाञ्च चण्डिकाम् ।
अर्चयेत्सततं भक्त्या ये सर्वान्कामांल्लभेन्नरः ॥ ५०॥

सुन्दरीमूर्तिभेदाश्च काली दुर्गा च चण्डिका ॥ ५१॥

एकैव शक्तिः परमेश्वरस्य
भिन्ना चतुर्धा विनियोगकाले ।
भोगे भवानी पुरुषेषु विष्णुः
कोपेषु काली समरेषु दुर्गा ॥ ५२॥

एका शक्तिश्च शम्भोर्विनिमयनविधौ सा चतुर्धा विभिन्ना
क्रोधे काली विजाताच समरसमये सा च चण्डी च दुर्गा ।
भोगे सृष्टौ नियोगे च सकलजगतां सा भवानी च जाता
सर्वेषां रक्षणानुग्रहकरणविधौ तस्य विष्णुर्भवेत्सा ॥ ५२॥

सम्प्रयच्छति तस्येष्टमचिरादेव सुन्दरी ।
स्तोत्ररत्नमिदं भद्रे सदा निष्कामनायुतः ॥ ५३॥

यो जपेन्मामकं धाम ब्रह्मविष्ण्वादिदुर्लभम् ।
सत्यज्ञानमनन्ताख्यं ब्राह्मं कैवल्यसञ्ज्ञकम् ॥ ५४॥

भवाब्धितारकं सोऽपि प्राप्नोति मदनुग्रहात् ।
चित्सभायां नृत्यमाननटराजस्य साक्षिणी ॥ ५५॥

तस्यैव महिषी नाम्रा शिवकामा च सुन्दरी ।
सा परब्रह्ममहिषी सदानन्दा शुभप्रदा ॥ ५६॥

शिवकामसुन्दरीनाम्नां सहस्रं प्रोक्तमम्बिके ।
एतस्य सदृशं स्तोत्रं नास्ति नास्ति जगत्त्रये ॥ ५७॥

सत्यं सत्यं पुनस्सत्यं त्वां शपेऽहं वदामि ते ।
नास्तिकाय कृतघ्नाय विप्रद्वेषपराय च ॥ ५८॥

न देयं वेदविप्रर्षिभक्तियुक्ताय शाम्भवि ।
देयं त्रिपुरविद्येशीत्यथर्वश्रुति चोदितम् ॥ ५९॥

विस्तृतेन किमन्यच्च श्रोतुकामासि सुन्दरि ।
इति निगदितवन्तं राजते पर्वतेऽस्मिन्
नवमणिगणपीठे संस्थितं देवमीशम् ।
मुहुरपि कृतनम्रा भक्तिनम्रा भवानी
करयुगसरसिजेनालिलिङ्गातिगाढम् ॥ ६०॥

इति श्रीभृङ्गिरिटिसंहितायां शक्त्युत्कर्षप्रकरणे शिवगौरीसंवादे
श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रोत्तरपीठिका सम्पूर्णा ॥

॥ शिवमस्तु ॥

Found a Mistake or Error? Report it Now

Download श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् PDF

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App