श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् PDF संस्कृत
Download PDF of Shivashaktikritam Ganadhisha Stotram Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् संस्कृत Lyrics
|| श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् ||
श्रीगणेशाय नमः ।
श्रीशक्तिशिवावूचतुः ।
नमस्ते गणनाथाय गणानां पतये नमः ।
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥
वरदाभयहस्ताय नमः परशुधारिणे ।
नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥
अनामयाय सर्वाय सर्वपूज्याय ते नमः ।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४॥
ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५॥
मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ।
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६॥
विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७॥
किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् ।
तेन तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८॥
तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ।
(फलश्रुतिः ।)
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९॥
भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् ।
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १०॥
धनधान्यादिकं सर्वं लभते तेन निश्चितम् ।
वरं च वदतं देवौ प्रसन्नोऽहं ददामि तम् ।
भवतोर्भक्तिभावेन विभुः स्तोत्रेण तोषितः ॥ ११॥
शक्तिशिवावूचतुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा नौ पुत्रतां याहि कृतकृत्यौ तया विभो ॥ १२॥
भक्तिं देहि दृढां देव त्वदीये पादपङ्कजे ।
दुर्मतिं जहि विघ्नेश त्रैलोक्यं च सुखीकुरु ॥ १३॥
इति शिवशक्तिकृतं श्रीगणाधीशस्तोत्रं समाप्तम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगणाधीशस्तोत्रं शिवशक्तिकृतम्
READ
श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
