श्री कुंजबिहारी अष्टक PDF हिन्दी
Download PDF of Shri Kunjbihari Ashtak Hindi
Shri Krishna ✦ Ashtakam (अष्टकम संग्रह) ✦ हिन्दी
श्री कुंजबिहारी अष्टक हिन्दी Lyrics
|| अष्टक ||
यः स्तूयते श्रुतिगणैर्निपुणैरजस्रं,
सम्पूज्यते क्रतुगतैः प्रणतैः क्रियाभिः।
तं सर्वकर्मफलदं निजसेवकानां,
श्रीमद् विहारिचरणं शरणं प्रपद्ये॥
यं मानसे सुमतयो यतयो निधाय,
सद्यो जहुः सहृदयान्धकारम्।
तं चन्द्रमण्डल-नखावलि-दीप्यमानं,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥
येन क्षणेन समकारि विपद्वियोगो,
ध्यानास्पदं सुगमितेन नुतेन विज्ञैः।
तं तापवारण-तनवारण-सांकुषांकं,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥
यस्मै विधाय विधिना विधिनारदाद्याः
पूजां विवेकवरदां वरदास्यभावाः।
तं दाक्षलक्षण-विलक्षण-लक्षणाढ्यं
श्री मद् विहारिचरणं शरणं प्रपद्ये॥
यस्मात सुखैकसदनान्मदनारिमुख्याः
सिद्धि समीयुरतुलां सकलांगषोभाम्।
तं शुद्धबुद्धि-षुभवृद्धि-समृद्धि-हेतुं,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥
यस्य प्रपन्नवरदस्य प्रसादतः स्यात्
तापत्रयापहरणं शरणं गतानाम्।
तं नीलनीरजनिभं जनिभंजनाय,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥
यस्मिन् मनो विनिहितं भवति प्रसन्नं,
खिन्नं कदिन्द्रियगणैरपि यद्विषण्यम्।
तं वास्तव-स्तव-निरस्त-समस्त दुखं,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥
हे कृष्णपाद! शमिताति-विषादभक्त
वांछा-प्रदामर-महीरूह-पंचशाख।
संसार-सागर-समुत्तरणे, वहित्र,
हे चिह्न-चित्रितचरित्र नमो नमस्ते॥
इदं विष्णोः पादाष्टकमतिविशादाभिशमनम्,
प्रणीतं यत्प्रेरणा सुकवि-जगदीषेन विदुषा।
पठेदयो वा भक्तयाऽच्युति-चरत चेताः स मनुजो,
भवे भुकत्वा भोगानभिसरति चान्ते हरिपदम्॥
|| इति श्री कुंजबिहारी अष्टक ||
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री कुंजबिहारी अष्टक
READ
श्री कुंजबिहारी अष्टक
on HinduNidhi Android App