श्री पार्वतीवल्लभ अष्टकम PDF हिन्दी
Download PDF of Shri Parvativallabh Ashtakam Hindi
Parvati Ji ✦ Ashtakam (अष्टकम संग्रह) ✦ हिन्दी
श्री पार्वतीवल्लभ अष्टकम हिन्दी Lyrics
॥ अष्टकम ॥
नमो भूतनाथं नमो देवदेवं नमः
कालकालं नमो दिव्यतेजम् ।
नमः कामभस्मं नमश्शांतशीलं
भजे पार्वतीवल्लभं नीलकंठम् ॥
सदा तीर्थसिद्धं सदा भक्तरक्षं
सदा शैवपूज्यं सदा शुभ्रभस्मम् ।
सदा ध्यानयुक्तं सदा ज्ञानतल्पं
भजे पार्वतीवल्लभं नीलकंठम् ॥
श्मशानं शयानं महास्थानवासं
शरीरं गजानां सदा चर्मवेष्टम् ।
पिशाचं निशोचं पशुनां प्रतिष्ठं
भजे पार्वतीवल्लभं नीलकंठम् ॥
फणीनागकण्ठे भुजङ्गाद्यनेकं
गले रुण्डमालं महावीर शूरम् ।
कटिव्याघ्रचर्मं चिताभस्मलेपं
भजे पार्वतीवल्लभं नीलकंठम् ॥
शिरश्शुद्धगङ्गा शिवा वामभागं
बृहद्दीर्घकेशं सदा मां त्रिणेत्रम् ।
फणीनागकर्णं सदा फालचन्द्रं
भजे पार्वतीवल्लभं नीलकंठम् ॥
करे शूलधारं महाकष्टनाशं
सुरेशं वरेशं महेशं जनेशम् ।
धनेशामरेशं घ्वजेशं गिरीशं
भजे पार्वतीवल्लभं नीलकंठम् ॥
उदासं सुदासं सुकैलासवासं
धरानिर्धरं संस्थितं ह्यादिदेवम् ।
अजाहेमकल्पद्रुमं कल्पसेव्यं
भजे पार्वतीवल्लभं नीलकंठम् ॥
मुनीनां वरेण्यं गुणं रूपवर्णं
द्विजैस्सम्पठन्तं शिवं वेद्शास्त्रम् ।
अहो दीनवत्सं कृपालं महेशं
भजे पार्वतीवल्लभं नीलकंठम् ॥
सदा भावनाथं सदा सेव्यमानं
सदा भक्तिदेवं सदा पुज्यमानम् ।
मया तीर्थवासं सदा सेव्यमेकं
भजे पार्वतीवल्लभं नीलकंठम् ॥
॥ इतिश्रीमच्छ्न्करयोगिन्द्र विरचितं पार्वतीवल्लभाष्टकम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री पार्वतीवल्लभ अष्टकम
READ
श्री पार्वतीवल्लभ अष्टकम
on HinduNidhi Android App