Misc

श्रीकृष्णमङ्गलाष्टकम्

Shrikrrishnamamgalashtakam2 Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकृष्णमङ्गलाष्टकम् ||

श्रीनारीवदनाम्बुजस्य तरणिः श्रीवत्सधारी हरिः
श्रीवैकुण्ठविलासलोलुपमतिः श्रीकौस्तुभालङ्कृतः ।
श्रीमद्ब्रह्मपिनाकिपूजितपदः श्रीशङ्खचक्राङ्कितः
श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ १॥

कस्तूरीयुतगन्धलेपुततनुः कुन्दाब्जमालाधरः
केयूरादिसमस्तभूषणयुतः कञ्जादिचिह्नाङ्कितः ।
मीनाङ्काद्भुतकोटिसुन्दरतनुर्मायातिगो माधवः
श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ २॥

देवानामधिपः पिनाकिसुसखो देवारिदर्पापहः
कौण्डिन्यादितपस्विसङ्घविनुतः कौन्तेयसंरक्षकः ।
वेद्याद्यर्थपदक्रमादिसमितो विश्वाधिनाथो हरिः
श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ ३॥

पृथ्वीभारनिवारणी सुनिरतः पृथ्वीपतिः पार्थिवैः
मान्धातृप्रमुखैः समर्चितपदो मीनान्ततातो गुरुः ।
नक्षत्राधिपचण्डभानुनयनो नागेन्द्रशायी हरिः
श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ ४॥

सर्वज्ञः सनकादिभिः परिवृतः सर्वेषु कृत्येष्वपि
ध्येयो धामनिवासबिम्बवसतिः सर्वज्ञचूडामणिः ।
सत्यज्ञानशुभस्वरूपसुखदः सर्वेष्टदाता हरिः
श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ ५॥

गोविन्दो गरुडध्वजो गुरुतमो गाङ्गेयसंरक्षकः
गाङ्गेयाम्बरचुम्बितो गगनसद्गङ्गापतिर्गोगतिः ।
गन्धर्वादिसुगीतहृष्टहृदयो गोपालबालान्वितः
श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ ६॥

यज्ञेशो यदुनन्दनो यदुपतिर्यज्ञेश्वरो यज्ञभुक्
यज्ञघ्नेशतनूजभावभरितो यज्ञाऽभिधेयो हरिः ।
यज्ञोद्भासविभूतयज्ञफलदो यज्ञप्रियः श्रीकरः
श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ ७॥

पूर्णप्रज्ञमतस्थितार्यसुखदः पूर्णेन्दुबिम्बस्थितः
पुण्यानेकफलप्रदानचतुरः श्रीपुण्डरीकप्रियः ।
विज्ञानाद्यमलाकृतिर्विजयते श्रीविट्ठलः श्रीकरः
श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ ८॥

॥ इति श्रीव्यासराजविरचितं श्रीकृष्णमङ्गलाष्टकम् ॥

Found a Mistake or Error? Report it Now

Download श्रीकृष्णमङ्गलाष्टकम् PDF

श्रीकृष्णमङ्गलाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App