Misc

श्रीलप्रभुपाददेवाष्टकम्

Shrilaprabhupadadevashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीलप्रभुपाददेवाष्टकम् ||

श्रीश्रीनवद्वीपपरप्रदीपः
सन्दीप्यमानह् सततो भुवीह ।
चेतस्तमो हन्ति हि यस्य यत्नान्
नमामि तं श्रीप्रभुपाददेवम् ॥ १॥

श्रीभक्तिसिद्धान्तप्रचोदितः श्री-
व्यासाद्यकोशं कुशलं कृपालुः ।
सन् म्लेच्छवाग्देशचयेऽदधद् य-
स्नमामि तं श्रीप्रभुपाददेवम् ॥ २॥

आच्छद्यते यत्परतर्कदृश्य-
गोविन्दम्ःर्त्युज्ज्वलभस्करेण ।
अद्वैतिखद्योतकुलं जगत्यां
नमामि तं श्रीप्रभुपाददेवम् ॥ ३॥

यस्यैव यत्नेन पुराणराज-
गङ्गामला केशवकेलिहंसा ।
सत्स्तोत्ररत्ना वहतीह लोके
नमामि तं श्रीप्रभुपाददेवम् ॥ ४॥

श्रीराधिकाकृष्णपदारविन्दे
सहस्रहृत्सु शतमन्दिरेषु ।
अरोपयद् यो मधुरे पृथिव्यां
नमामि तं श्रीप्रभुपाददेवम् ॥ ५॥

कौशल्यदैर्यस्य सहस्रशास्त्र-
शस्त्रातिवर्षैः प्रतिहन्यते हि ।
चण्डा कलेर्मोहचम्ःर्हठेन
नमामि तं श्रीप्रभुपाददेवम् ॥ ६॥

नानालसद्गौरसुधाप्रकाश-
फलः क्षितौ स्थापित एव येन ।
कृष्णानुचिन्ताजनसङ्घवृक्ष-
स्नमामि तं श्रीप्रभुपाददेवम् ॥ ७॥

यो नित्यदा जीवति दैविकीषु
निजासु शिक्षासु सहानुगामि ।
कृपाम्बुधिर्नन्दसुताश्रितात्मा
नमामि तं श्रीप्रभुपाददेवम् ॥ ८॥

इति कुशक्रथदासविरचितं श्रीलप्रभुपाददेवाष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीलप्रभुपाददेवाष्टकम् PDF

श्रीलप्रभुपाददेवाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App