|| शुक्रस्तोत्रम् ३ ||
ॐ कवीश्वर नमस्तुभ्यं हव्यकव्यविदां वर ।
उपासक सरस्वत्या मृतसञ्जीवनप्रिय ॥ १॥
दैत्यपूज्य नमस्तुभ्यं दैत्येन्द्रशासनाकर ।
नीतिशास्त्रकलाभिज्ञ बलिजीवप्रभावन ॥ २॥
प्रह्लादपरमाह्लाद विरोचनगुरो सित ।
आस्फूर्जज्जितशिष्यारे नमस्ते भृगुनन्दन ॥ ३॥
सुराशन सुरारातिचित्तसंस्थितिभावन ।
उशना सकलप्राणिप्राणाश्रय नमोऽस्तु ते ॥ ४॥
नमस्ते खेचराधीश शुक्र शुक्लयशस्कर ।
वारुण वारुणीनाथ मुक्तामणिसमप्रभ ॥ ५॥
क्षीबचित्त कचोद्भूतिहेतो जीवरिपो नमः ।
देवयानीययातीष्ट दुहितृस्थेयवत्सल ॥ ६॥
वह्निकोणपते तुभ्यं नमस्ते खगनायक ।
त्रिलोचन तृतीयाक्षिसंस्थित शुकवाहन ॥ ७॥
इत्थं दैत्यगुरोः स्तोत्रं यः स्मरेन्मानवः सदा ।
दशादौ गोचरे तस्य भवेद्विघ्नहरः सितः ॥ ८॥
सोमतुल्या प्रभा यस्य चासुराणां गुरुस्तथा ।
जेता यः सर्वशत्रूणां स काव्यः प्रीयतां मम ॥ ९॥
इति शुक्रस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now