Misc

श्रीशूलिनीदुर्गासुमुखीकरणस्तोत्रम्

Shulinidurgasumukhikarana Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीशूलिनीदुर्गासुमुखीकरणस्तोत्रम् ||

ॐ अस्य श्रीसुमुखीकरणस्तोत्रमन्त्रस्य दीर्घतमा ऋषिः ।
ककुप्छन्दः । शूलिनी देवता । तत्प्रासादसिद्ध्यर्थे जपे विनियोगः ।
श्रीदीर्घतमा ऋषये नमः शिरसि । ककुप्छन्दसे नमः मुखे ।
शूलिनी देवतायै नमः हृदि । तत्प्रासादसिद्ध्यर्थे जपे विनियोगाय
नमः सर्वाङ्गे ॥

ध्यानम् ।
ॐ ध्यायेद्धेमसहोपलासनपरे कन्याजनालङ्कृते (समुज्ज्वलासनवरे, समोपलासनवरे)
पञ्चब्रह्ममुखामरैर्मुनिवरैः सेव्ये जगन्मङ्गले ।
आसीनां स्मितभाषिणीं शिवसखीं कल्याणवेषोज्ज्वलां (स्मितभाषणां)
भक्ताभीष्टवरप्रदाननिरतां विश्वात्मिकां शूलिनीम् ॥

मानस पूजनम् –
ॐ लं पृथ्वीतत्त्वात्मकं गन्धं श्रीशूलिनी देवता प्रीतये समर्पयामि नमः ।
ॐ हं आकाश तत्त्वात्मकं पुष्पं श्रीशूलिनी देवता प्रीतये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीशूलिनी देवता प्रीतये घ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीशूलिनी देवता प्रीतये दर्शयामि नमः ।
ॐ वं अमृततत्त्वात्मकं नैवेद्यं श्रीशूलिनी देवता प्रीतये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीशूलिनी देवता प्रीतये समर्पयामि नमः ।

अथ पाठः ।

(प्रत्येक् श्लोक से पूर्व ॐ श्रीं ह्रीं क्लीं क्ष्म्र्यौं दुं पढ़ें ।)

ओङ्कारमन्त्रपीठस्थे ओषधीशामृतोज्ज्वले । (माहोज्ज्वले)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १॥

श्रीपूर्णे श्रीपरे श्रीशे श्रीमये श्रीविवर्धने । (श्रीशे श्रीपदे श्रीप्रदे)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २॥

कामेशि कामरसिके कामितार्थफलप्रदे ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३॥

मायाविलासचतुरे माये मायाधिनायिके । (मायाधिमायिके)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ४॥

चिन्तामणेऽखिलाभीष्टसिद्धिदे विश्वमङ्गले ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ५॥

सर्वबीजाधिपे सर्वसिद्धिदे सिद्धरूपिणि । (सर्वरूपिणि)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ६॥

ज्वलत्तेजस्त्रयानन्तकोटिकोटिसमद्युते ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ७॥

लसच्चन्द्रार्धमकुटे लयजन्मविमोचके ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ८॥

ज्वररोगमुखापत्ति भञ्जनैक धुरन्धरे ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ९॥

लक्षलक्ष्ये लयातीते लक्ष्मीवर्गवरेक्षणे । (लक्ष्मीवर्गधरेक्षणे)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १०॥

शूराङ्गनाऽनन्तकोटिव्यापृताशेषजालके । (व्यावृता)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ११॥

लिपे लिङ्गादिदिक्स्थाननियताराधनप्रिये । (पिलीलिङ्गादि)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १२॥

निर्मले निर्गुणे नित्ये निष्कले निरुपद्रवे ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १३॥

दुर्गे दुरितसंहारे दुष्टातूलान्त्य पावके ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १४॥

रमामये रमासेव्ये रमावर्धनतत्परे । (टमामये टमासेव्ये टमावर्धनतत्परे?)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १५॥

ग्रसिताशेषभुवने ग्रन्थिसन्ध्यर्णशोभिते ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १६॥

हंसतार्क्ष्यवृषारूढैराराधितपदद्वये ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १७॥

हुङ्कारकालदहनभस्मीकृतजगत्त्रये ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १८॥

फट्कारचण्डपवनोद्वासिताखिलविग्रहे ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ १९॥

स्वीकृतस्वामिपादाब्जभक्तानां स्वाभिवृद्धिदे । (स्वाकृते)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २०॥

हालाहलविषाकारे हाटकारुणपीठिके ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २१॥

मूलादिब्रह्मरन्ध्रान्तज्वलज्ज्वालास्वरूपिणि । (रन्ध्रान्तं मूलज्वालास्वरूपिणि)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २२॥

वषडादिक्रियाषट्कमहासिद्धिप्रदे परे ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २३॥

सर्वविद्वन्मुखाम्भोजदिवाकरसमद्युते ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २४॥

नानामहीपहृदयनवनीतद्रवानले ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २५॥

अशेषज्वरसर्पाग्निचन्द्रोपलशशिद्युते । (सर्पादि)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २६॥

महापापौघकलुषक्षालनामृतवाहिनि ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २७॥

अशेषकायसम्भूतरोगतूलानलाकृते । (तूलाननाऽऽकृते)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २८॥

ओषधीकूटदावाग्निशान्तिसम्पूर्णंवर्षिणि । (ओषधीकोटि)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ २९॥

तिमिरारातिसंहारदिवानाथशताकृते ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३०॥

सुधार्द्रजिह्वाऽऽवर्त्यग्र सुदीपे विश्ववाक्प्रदे । (सुधाग्र)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३१॥

अरात्यवनिपानीक तूलोच्चाटमहानिले । (कुलोच्चाटमहानिले)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३२॥

समस्तमृत्युतुहिनसहस्रकिरणोपमे ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३३॥

सुभक्तहृदयानन्दसुखसंवित्स्वरूपिणि ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३४॥

जगत्सौभाग्यबलदे जङ्गमस्थावरात्मिके । (जगत्सौभाग्यफलदे)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३५॥

धनधान्याब्धिसंवृद्धिचन्द्रकोटिसमोदये ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३६॥

सर्वजीवात्मधेन्वग्रसमर्च्यानलवत्सके । (समुच्यानिल, समुच्चालन)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३७॥

तेजःकणमहावीरसमावीतान्त्यपावके ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३८॥

नानाचराचराविषदाहोपशमनामृते । (नानाचराचराविष्ट)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ३९॥

सर्वकल्याणकल्याणे सर्वसिद्धिविवर्धने ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ४०॥

सर्वेशि सर्वहृदये सर्वाकारेऽनिराकृते । (सर्वाकारे निराकृते)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ४१॥

अनन्तानन्दजनके अमृतेऽमृतनायिके । (अनन्तानन्तजनके अभूते आत्मनायिके)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ४२॥

रहस्यातिरहस्यात्मरहस्यागमपालिके । (रहस्यादिरहस्यात्मरहस्यागमपालके)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ४३॥

आचारकरणातीते आचार्यकरुणामये ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ४४॥

सर्वरक्षाकरे भद्रे सर्वशिक्षाकरेऽतुले ।
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ४५॥

सर्वलोके सर्वदेशे सर्वकाले सदाम्बिके । (सताम्बिके)
ऐश्वर्यमायुरारोग्यमिष्टसिद्धिं च देहि मे ॥ ४६॥

आद्येऽनादिकलाविशेषविवृतेऽनन्ताखिलात्माकृते
आचार्याङ्घ्रिसरोजयुग्मशिरसामापूरिताशामृते ।
संसारार्णवतारणोद्यतकृपासम्पूर्णदृष्ट्याऽनिशं (सम्पूर्णं दृष्ट्यानिशं)
दुर्गे शूलिनि शङ्करि स्नपय मां त्वद्भावसंसिद्धये ॥ ४७॥ (त्वं भावसंसिद्धये)

इति परमशिवायाः शूलिनीदेवतायाः (सुमुखीमहाशक्त्याः)
स्तुतिमतिशयसौख्यप्राप्तये योऽनुवारम् । (यो नु वाऽत्र)
स्मरति जपति विद्वान् संवृतोऽशेषलोकै- (विद्वत्संवृतो शेषलोकै-)
र्निखिलसुखमवाप्य श्रीशिवाकारमेति ॥ ४८॥

॥ इति आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे
शूलिनीविधिर्नां एकत्रिंशोऽध्यायान्तर्गते शूलिनीदुर्गासुमुखीकरणस्तोत्रं
सम्पूर्णम् ॥

इति श्रीमहाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे
उमामहेश्वरसंवादे शङ्करेण विरचिते दुर्गासुमुखीकरणस्तुतिर्नाम
सप्तमोपदेशः ॥

(श्रीशूलिनीदुर्गासुमुखीकरणस्तुतिः)

Found a Mistake or Error? Report it Now

Download श्रीशूलिनीदुर्गासुमुखीकरणस्तोत्रम् PDF

श्रीशूलिनीदुर्गासुमुखीकरणस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App