श्री ऋणविमोचन महागणपति स्तोत्रम्
|| श्री ऋणविमोचन महागणपति स्तोत्रम् || स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् । षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥ १ ॥ एकाक्षरं ह्येकदन्तं एकं ब्रह्म सनातनम् । एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ २ ॥ महागणपतिं देवं महासत्त्वं महाबलम् । महाविघ्नहरं शम्भोः नमामि ऋणमुक्तये ॥ ३ ॥ कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् । कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये ॥ ४ ॥ रक्ताम्बरं…