श्री मनसा देवी द्वादशनाम स्तोत्रम् (नागभय निवारण स्तोत्रम्)
|| श्री मनसा देवी द्वादशनाम स्तोत्रम् (नागभय निवारण स्तोत्रम्) || ओं नमो मनसायै । जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी । वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥ १ ॥ जरत्कारुप्रियाऽऽस्तीकमाता विषहरीती च । महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥ २ ॥ द्वादशैतानि नामानि पूजाकाले च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ ३ ॥ नागभीते…