दिवाकर पंचक स्तोत्र
|| दिवाकर पंचक स्तोत्र || अतुल्यवीर्यंमुग्रतेजसं सुरं सुकान्तिमिन्द्रियप्रदं सुकान्तिदम्। कृपारसैक- पूर्णमादिरूपिणं दिवाकरं सदा भजे सुभास्वरम्। इनं महीपतिं च नित्यसंस्तुतं कलासुवर्णभूषणं रथस्थितम्। अचिन्त्यमात्मरूपिणं ग्रहाश्रयं दिवाकरं सदा भजे सुभास्वरम्। उषोदयं वसुप्रदं सुवर्चसं विदिक्प्रकाशकं कविं कृपाकरम्। सुशान्तमूर्तिमूर्ध्वगं जगज्ज्वलं दिवाकरं सदा भजे सुभास्वरम्। ऋषिप्रपूजितं वरं वियच्चरं परं प्रभुं सरोरुहस्य वल्लभम्। समस्तभूमिपं च तारकापतिं दिवाकरं सदा भजे सुभास्वरम्। ग्रहाधिपं गुणान्वितं…