गुह अष्टक स्तोत्र
|| गुह अष्टक स्तोत्र || शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं ज्ञातृज्ञाननिरन्तर- लोकगुणातीतं गुरुणातीतम्। वल्लीवत्सल- भृङ्गारण्यक- तारुण्यं वरकारुण्यं सेनासारमुदारं प्रणमत देवेशं गुहमावेशम्। विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं भावाभावजगत्त्रय- रूपमथारूपं जितसारूपम्। नानाभुवनसमाधेयं विनुताधेयं वरराधेयं केयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम्। स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दं ज्योतिःस्तोमनिरन्तर- रम्यमहःसाम्यं मनसायाम्यम्। मायाशृङ्खल- बन्धविहीनमनादीनं परमादीनं शोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम्। व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपं ज्योतिश्चक्रसमर्पित- कायमनाकाय- व्ययमाकायम्। भक्तत्राणनशक्त्या युक्तमनुद्युक्तं…