ब्रह्मणा कृता श्रीकृष्णस्तुतिः
|| ब्रह्मणा कृता श्रीकृष्णस्तुतिः || कृताञ्जलिपुटो भूत्वा परिणीय प्रणम्य च । भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः ॥ १०७॥ ब्रह्मोवाच नमो नमस्ते सर्वात्मंस्तत्वज्ञानस्वरूपिणे । नित्यानन्दस्वरूपाय प्रियतात्मन्महात्मने ॥ १०८॥ अणुर्बृहत्स्थूलतररूपः सर्वगतोऽव्ययः । अनादिमध्यान्तरूप स्वरूपात्मन्नमोऽस्तु ते ॥ १०९॥ नित्यज्ञानबलैश्वर्यवीर्यतेजोमयस्य च । महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये ॥ ११०॥ त्वं वेदपुरुषो ब्रह्मन्महापुरुष एव च । शरीरपुरुषत्वस्य छन्दःपुरुष एव च ॥ १११॥ चत्वारः…