Shri Durga Maa Stuti

|| Shri Durga Maa Stuti || || Mantra || Sarva Mangala Mangalye Shive Sarvartha Sadhike, Sharanye Trayambake Gauri Narayani Namostute. || Stuti || Jai Jag Janani Adi Bhavani, Jai Mahishasura Marini Ma. Uma Rama Gauri Brahmani, Jai Tribhuvan Sukh Karini Ma. Hey Mahalakshmi Hey Mahamaya, Tum Mein Sara Jagat Samaya. Tin Roop Tino Gunadharni, Tin…

श्रीकृष्णस्तुतिर्मङ्गलम्

|| श्रीकृष्णस्तुतिर्मङ्गलम् || नमः परमकल्याण नमस्ते विश्वमङ्गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ १॥ नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् । यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ २॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ३॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ ४॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय…

श्रीकृष्णस्तुतिः सङ्कीर्णा

|| श्रीकृष्णस्तुतिः सङ्कीर्णा || (सङ्कीर्णश्लोकाः) इन्दीवरदलश्याममिन्दरानन्दकन्दलम् । वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ १॥ देवः पायादपायान्नः स्मरेन्दीवरलोचनः । संसारध्वान्तविध्वंसहंसकंसनिषूदनः ॥ २॥ पान्तु वो जलदश्यामाः शार्ङ्गिज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ ३॥ दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ ४॥ हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ ५॥ देहि मत्कन्दुकं राधे परिधाननिगूहितम् ।…

श्री दुर्गा नक्षत्र मालिका स्तुति

|| श्री दुर्गा नक्षत्र मालिका स्तुति || विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ यशोदागर्भसंभूतां नारायणवरप्रियाम् । नंदगोपकुलेजातां मंगल्यां कुलवर्धनीम् ॥ कंसविद्रावणकरीं असुराणां क्षयंकरीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥ भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् । तान्वै तारयते पापात् पंकेगामिव दुर्बलाम् ॥ स्तोतुं प्रचक्रमे…

श्रीशुकप्रोक्ता श्रीकृष्णस्तुतिः

|| श्रीशुकप्रोक्ता श्रीकृष्णस्तुतिः || श्रीशुक उवाच नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनामन्तर्भवायानुपलक्ष्यवर्त्मने ॥ १॥ भूयो नमः सद्वृजिनच्छिदेऽसतामसम्भवायाखिलसत्त्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥ २॥ नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ ३॥ यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे…

श्रीकृष्णस्तुतिःब्रह्म

|| श्रीकृष्णस्तुतिःब्रह्म || ब्रह्मोवाच । नौमीड्य तेऽभ्रवपुषे तडिदम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय । वन्यस्रजे कवलवेत्रविषाणवेणु लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ १॥ अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि । नेशेमहि त्ववसितुं मनसान्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २॥ ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिः ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३॥ श्रेयःस्रुतिं भक्तिमुदस्य ते…

ब्रह्मणा कृता श्रीकृष्णस्तुतिः

|| ब्रह्मणा कृता श्रीकृष्णस्तुतिः || कृताञ्जलिपुटो भूत्वा परिणीय प्रणम्य च । भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः ॥ १०७॥ ब्रह्मोवाच नमो नमस्ते सर्वात्मंस्तत्वज्ञानस्वरूपिणे । नित्यानन्दस्वरूपाय प्रियतात्मन्महात्मने ॥ १०८॥ अणुर्बृहत्स्थूलतररूपः सर्वगतोऽव्ययः । अनादिमध्यान्तरूप स्वरूपात्मन्नमोऽस्तु ते ॥ १०९॥ नित्यज्ञानबलैश्वर्यवीर्यतेजोमयस्य च । महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये ॥ ११०॥ त्वं वेदपुरुषो ब्रह्मन्महापुरुष एव च । शरीरपुरुषत्वस्य छन्दःपुरुष एव च ॥ १११॥ चत्वारः…

श्रीकृष्णस्तुतिःदेव

|| श्रीकृष्णस्तुतिःदेव || देवकृता नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः । यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ॥ १॥ त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ २॥ शुद्धिर्नृणां न तु तथेड्य दुराशयानां विद्याश्रुताध्ययनदानतपःक्रियाभिः । सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध- सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ३॥ स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः…

कृष्णस्तुतिःजीव

|| कृष्णस्तुतिःजीव || जीवकृता तस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि चलच्चरणारविन्दम् । सोऽहं व्रजामि शरणं ह्यकुतोभयं मे येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १॥ यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् । आस्ते विशुद्धमविकारमखण्डबोधमातप्यमानहृदयेऽवसितं नमामि ॥ २॥ यः पञ्चभूतरचिते रहितः शरीरे छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् । तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ ३॥ यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पथि चरंस्तदभिश्रमेण । नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण…

श्रीकृष्णस्तुतिःगुह्यक

|| श्रीकृष्णस्तुतिःगुह्यक || गुह्यककृता कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ १॥ त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रयेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ २॥ त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३॥ गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ॥ ४॥ तस्मै तुभ्यं भगवते वासुदेवाय…

श्रीकृष्णस्तुतिःकुन्ती

|| श्रीकृष्णस्तुतिःकुन्ती || (कुन्तीकृता) नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १॥ मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ २॥ तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥ ३॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ४॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥…

इन्द्रकृता श्रीकृष्णस्तुतिः

|| इन्द्रकृता श्रीकृष्णस्तुतिः || ततः शतक्रतुर्देवः समेत्य मधुसूदनम् । तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा ॥ १८६॥ इन्द्र उवाच नमस्ते पुण्डरीकाक्ष सर्वज्ञाति त्रिविक्रम । त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोऽस्तु ते ॥ १८७॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः । त्वमेव सर्वदेवानां पिता माता च केशव ॥ १८८॥ अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत । त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः ॥ १८९॥ पृथिवीं द्यामिमां देव…

अक्रूरकृता श्रीकृष्णस्तुतिः

|| अक्रूरकृता श्रीकृष्णस्तुतिः || दृष्ट्वा तस्मिन् जले देवं विस्मयं परमं ययौ । तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ॥ ३०४॥ अक्रूर उवाच कालात्मने नमस्तुभ्यमनादिनिधनाय च । अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ॥ ३०५॥ भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः । नमस्ते सर्वभूतानां नियन्त्रे परमात्मने ॥ ३०६॥ विकारायाविकाराय प्रत्यक्षपुरुषाय च । गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ॥ ३०७॥ देशकालादिनिर्भेदरहिताय परात्मने…

नारदमुनिकृता एकदन्तस्तुतिः

|| नारदमुनिकृता एकदन्तस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अथादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥ समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभान्तमेवम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वबिम्बभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् । सुवीर्यकं तत्र…

चन्द्रकृता श्रीगणेशस्तुतिः

|| चन्द्रकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ चन्द्र उवाच । नमस्ते विघ्नपालाय गणेशाय परात्मने । ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥ ९५॥ अनामयाय सर्वादिपूज्याय तु नमो नमः । शिवात्मजाय देवाय विष्णुपुत्राय ते नमः ॥ ९६॥ ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे । शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥ ९७॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः…

देवर्षयकृता श्रीचतुर्भुजस्तुतिः

|| देवर्षयकृता श्रीचतुर्भुजस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते काश्यपायैव चतुर्भुजाय ढुण्ढये । अनादये गणेशाय विघ्नेशाय नमो नमः ॥ ३५॥ परेशाय परेषां च पतये परमात्मने । विनायकाय विप्रेभ्यो वरदाय नमो नमः ॥ ३६॥ लम्बोदराय सर्वेषामुदरस्थाय ते नमः । महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥ ३७॥ क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे । शूद्राणां शूद्रधर्माय…

धूम्रवर्णस्तुतिः देवर्षिभिः प्रोक्ता

|| धूम्रवर्णस्तुतिः देवर्षिभिः प्रोक्ता || ॥ श्रीगणेशाय नमः ॥ शिव उवाच शान्तिरूपधरं पूर्णं गाणेशाहङ्कृतिस्थितम् । अहं दृष्ट्वा सुरा विप्रा विस्मिता अभवन् द्विजाः । १ ततस्ते धूम्रवर्णं वै पुपूजुर्भक्तिसंयुताः । पुनः प्रणम्य तं सर्वे तूष्टुवुः करसम्पुटाः ॥ २॥ देवर्षय ऊचुः अजायाथ सर्वादिपूज्याय नित्यं निरालम्बनेति स्वरूपाय ढुण्ढे ! । सदाऽव्यक्तरूपाय सर्वान्तगाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ३॥ सदा…

ब्रह्माण्यकृता धूम्रवर्णस्तुतिः

|| ब्रह्माण्यकृता धूम्रवर्णस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ब्रह्माण्यूचुः । नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे । बिम्बाय शङ्करायैव शम्भवे ते नमो नमः ॥ २९॥ अमेयशक्तये तुभ्यं पार्वतीपतये नमः । वृषध्वजाय देवाय सहजाय नमो नमः ॥ ३०॥ मायाश्रयाय मायायाश्चालकाय परात्मने । महेश्वराय पूर्णाय हेरम्बाय नमो नमः ॥ ३१॥ जटाजूटधरायैव निर्मोहाय सदाशिव । परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥…

नारदमुनिकृता पुष्टिपतिस्तुतिः

|| नारदमुनिकृता पुष्टिपतिस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १७॥ जयानन्त गुणाधार जय सिद्धिप्रद प्रभो । जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ १८॥ जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर । जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ १९॥ जय वेदान्तवादज्ञ जय वेदान्तकारण ।…

अरुणकृता श्रीभानुविनायकस्तुतिः

|| अरुणकृता श्रीभानुविनायकस्तुतिः || ॥ श्रीगणेशाय नमः ॥ अरुण उवाच । नमस्ते गणनाथाय तेजसां पतये नमः । अनामयाय देवेश आत्मने ते नमो नमः ॥ ३३॥ ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः । आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ ३४॥ स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने । चतुर्भुजधरायैव सहस्रकिरणाय च ॥ ३५॥ सिद्धिबुद्धिपते तुभ्यं संज्ञानाथाय ते नमः । विघ्नहन्त्रे तमोहन्त्रे…

योगाधिपतिश्रीगणेशस्तुतिः

|| योगाधिपतिश्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ अयोग उवाच । शान्तिस्वरूपाय सुशान्तिदाय वाणीमनोहीनतमाय ढुण्ढे । वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपते नमस्ते ॥ ३॥ वाणीमनोयुक्तमयं वदामि नो विश्वरूपोऽसि कथं स्तवीमि । नित्यं गणेशाय नमो महात्मन् योगाय योगाधिपते नमस्ते ॥ ४॥ वाणीमनोहीनमयं कथं त्वां ब्रुवेऽद्य संयोगमयं कदा च । नो योगरूपं त्वथ ते नमो वै योगाय योगाधिपते नमस्ते…

नारदमुनिकृता मूषकगस्तुतिः

|| नारदमुनिकृता मूषकगस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । सर्वेषां भोगभोक्त्रे मूषकगाय नमो नमः । सर्वदेवाधिदेवाय गणेशाय नमो नमः ॥ ३१॥ लम्बोदराय विघ्नानां नायकाय परात्मने । भक्तानां विघ्नहर्त्रे ते विघ्नदात्रे दुरात्मनाम् ॥ ३२॥ हेरम्बाय नमस्तुभ्यं भक्तवत्सलरूपिणे । स्वानन्दवासिने चैव परेशाय नमो नमः ॥ ३३॥ महोदराय पूज्याय सर्वेषां सर्वरूपिणे । सर्वादिपूज्यकायैव वक्रतुण्डाय ते नमः…

देवर्षयमूषककृता मूषकगस्तुतिः

|| देवर्षयमूषककृता मूषकगस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते । अन्तर्भोगकरायैव मूषकाय नमो नमः ॥ ६॥ मायया स्तेयरूपिण्या मोहयित्वा चराचरम् । चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥ ७॥ चराचरमयायैव चराचरधराय ते । सर्वाधीशाय लोकाय कालकालाय ते नमः ॥ ८॥ अनादये महेशाय चतुर्वर्गप्रदायिने । गणेशवाहनायैव गणेशध्वजसंस्थित ॥ ९॥ सर्वत्रग गणाधीशस्त्वया…

दक्षकृता शिवस्तुतिः

|| दक्षकृता शिवस्तुतिः || दक्ष उवाच । नमामि शङ्करं साक्षाद्यदाधारमिदं जगत् । कालरूपं यथाकालं बोधयामास तं शिवम् ॥ ९१॥ कालेन फलमूलानि जायतेऽन्नादिकानि च । शीतोष्णसमभावश्च सदा कालेन जायते ॥ ९२॥ सूर्यस्तपति कालेन ज्योतिषां गण एव च । कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ ९३॥ कालेन मृज्यते सृष्टिब्रह्मणा वै पुनः पुनः । कालन पालनं तत्र कुरुने विष्णुरव्ययः…

विकटस्तुतिः देवर्षिभिः प्रोक्ता

|| विकटस्तुतिः देवर्षिभिः प्रोक्ता || ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच – कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः । विस्मिता विकटं पूज्यं तुष्टुवुः करसम्पुटाः ॥ १॥ देवर्षय ऊचुः अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् । असद्विहीनं विविधान्तरस्थं भजामहे तं विकटं परेशम् ॥ २॥ अनादिमध्यान्तविवर्जितं यत्सुजीवनं जीवनधर्मधारम् । सदाऽमृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥ ३॥ त्वयैव माया…

विकटस्तुतिः कामासुरेण प्रोक्तम्

|| विकटस्तुतिः कामासुरेण प्रोक्तम् || ॥ श्रीगणेशाय नमः ॥ कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः । विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥ ३२॥ प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् । तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥ ३३॥ कामासुर उवाच – नमस्ते विकटायैव गणेशाय परात्मने । सर्वपूज्याय सर्वेश! देवासुरमयाय च ॥ ३४॥ अनन्तमाययायुक्त! ब्रह्मभूतस्वरूपिणे । गजाननाय हेरम्ब! देवेशाय नमो नमः ॥…

श्रीश्वेतारण्यस्तुतिः

|| श्रीश्वेतारण्यस्तुतिः || श्रीमत्कीर्तिपवित्रितत्रिजगतश्चेतस्य रक्षाच्छला(जगतः श्वेतस्य) च्छ्वेतारण्यपुरे चिराय विहरन् देवो विभूत्यै भुवः । सत्यज्ञानसुधैकमूर्तिरखिलानर्थान् कृतान्तद्विषन् दाता मे भवतादपारकरुणापीयूषपाथोनिधिः ॥ १॥ श्रीमानद्भुतसत्कवित्वपदवीनित्याध्वनीनो वशी यो जागर्ति जगत्प्रकाशमहिमा वीरः प्रकाशेश्वरः । तस्य श्रीरविवर्मदेवनृपतेर्वाचा कृतान्तद्रुहः श्वेतारण्यविहारिणो भगवतः सेवाक्रमो वक्ष्यते ॥ २॥ जय जय जगदेकनाथ जनिमरणजलधितरणपोतायमानकरुणाकटाक्षलेश निशाकरकलापीड विशालतरभक्तिनिरतिशयश्वेतमानमानसश्वेतमुनिजीवितजीवातुलतापल्लवस्य निशातशूलविदारितकृतान्तभुजान्तरालस्य भगवतः परक्रोडपुरे परिक्रीडमानस्य चरणसरसिजयुगलमगलितादरमनुदिनमुपासे उदयशैलशिखरमधिरुक्षत्युपचिततमःपटलपाटनोद्वेगिनि उद्वेलवियोगवेदनाकलुषितचक्रवाकमहिलाचक्रवालसम्प्रेक्ष्यमाणोदये भगवति दिवाकरे सपद्युज्जृम्भमाणप्राभातिकमहितमङ्गलशङ्खध्वनिश्रवणविद्राणनिद्राविशेषसमधिकमनःप्रसादः समुत्थाय समाहितात्मा…

श्रीशनिनामस्तुतिः

|| श्रीशनिनामस्तुतिः || क्रोडं नीलाञ्जनप्रख्यम् नीलवर्णसमस्रजम् । छायामार्तण्डसम्भूतं नमस्यामि शनैश्चरम् ॥ नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णाञ्जनमेचकाय । श्रुत्वा रहस्यं भवकामदश्च फलप्रदो मे भव सूर्यपुत्र ॥ नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः । शनैश्चराय क्रूराय शुद्धबुद्धिप्रदायिने ॥ ॥ फल्श्रुतिः ॥ य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम् । मदीयं तु भयं तस्य स्वप्नेऽपि न भविष्यति ॥ ॥ श्रीभविष्यपुराणे श्रीशनिनामस्तुतिः सम्पूर्णा…

श्रीहनूमत्स्तुती

|| श्रीहनूमत्स्तुती || हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः । रामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ १॥ उदधिक्रमणश्चैव सीताशोकविनाशनः । लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ २॥ एवं द्वादश नामानि कपीन्द्रस्य महात्मनः । स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ॥ ३॥ तस्य सर्व भयं नास्ति रणे च विजयी भवेत् । राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥ ४॥ ॥ ॐ तत्सत्…

श्रीसुब्रह्मण्यशक्तिस्तुतिः

|| श्रीसुब्रह्मण्यशक्तिस्तुतिः || शक्ते भजे त्वां जगतो जनित्रीं सुखस्य दात्रीं प्रणतार्तिहन्त्रीम् । नमो नमस्ते गुहहस्तभूषे भूयो नमस्ते हृदि सन्निधत्स्व ॥ इति श्री आदिशङ्कराचार्यकृता श्रीसुब्रह्मण्यशक्तिस्तुतिः समाप्ता ।

श्री राम स्तुति

|| श्री राम स्तुति लिरिक्स || ॥ दोहा ॥ श्री रामचन्द्र कृपालु भजुमन हरण भवभय दारुणं । नव कंज लोचन कंज मुख कर कंज पद कंजारुणं ॥ कन्दर्प अगणित अमित छवि नव नील नीरद सुन्दरं । पटपीत मानहुँ तडित रुचि शुचि नोमि जनक सुतावरं ॥ भजु दीनबन्धु दिनेश दानव दैत्य वंश निकन्दनं । रघुनन्द आनन्द…

श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुस्तुतिपञ्चकम्

|| श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुस्तुतिपञ्चकम् || शिवगुरुनन्दन-शङ्करशोभित-कामपदाङ्कित-पीठपते नृपजनवन्दित विश्वमनोहर सर्वकलाधर पूततनो । श्रुतिमतपोषक दुर्मतशिक्षक सज्जनरक्षक कल्पतरो जय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम् ॥ १॥ श्रीधर शशिधर भेदविकल्पन दोषनिवारण धीरमते रघुपतिपूजित-लिङ्गसमर्चन-जातमनोहर शीलतनो । बहुविधपण्डितमण्डल-मण्डित संसदिपूजित वेदनिधे जय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम् ॥ २॥ हिमगिरिसम्भव-दिव्यसरिद्वरशोभि-शिरोवर भक्तिनिधे निजसकलागम-शास्त्रविमर्शक पण्डितमण्डल-वन्द्यतनो । बुधजनरञ्जक दुर्जनमानस-दोषनिवारक-वाक्यरते जय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय…

अणुवायुस्तुतिः

|| अणुवायुस्तुतिः || चन्द्रविभूषणचन्द्रपुरोगैर्वन्द्यपदाम्बुरुहं पवमानम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ १॥ प्राणगणाधिपतिं भुवि वाणीप्राणसमं दयया ह्यवतीर्णम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ २॥ श्री हनूमन्तमनन्तभुजिष्यं लङ्घितसिन्धुमुदस्तमहीध्रम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ ३॥ भीषणदुष्टकुलान्तकभीमं भीममभीतिदमिष्टजनानाम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ ४॥ शान्तमनन्तनिशान्तसमाह्वे शान्तकुले किल जातम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ ५॥ ॥ इति श्रीकल्याणीदेविविरचिता अणुवायुस्तुतिः समाप्ता ॥

श्रीसत्यवीरतीर्थस्तुतिः

|| श्रीसत्यवीरतीर्थस्तुतिः || आदिघट्टाञ्जनेयस्य मूलरामस्य चार्चकम् । धर्मसंस्थापनासक्तं सत्यवीरमहं भजे ॥ १॥ मारिकावारकं राज्ञे सत्सन्तानप्रदं मुदा । स्वाराज्यस्थापकं तप्तचक्रभूषणकारकम् ॥ २॥ स्वरूपं वादिराजस्य बोधयन्तं निजान् प्रति । निरस्तभृत्यसमयान् शासयन्तं हिताय वै ॥ ३॥ विद्वत्सभादिव्याजेन विद्वत्पोषकमादरात् । विद्वदग्रेसरं शुद्धयतिधर्मप्रपालकम् ॥ ४॥ सत्पराक्रमसच्छिष्यं सत्यधीरगुरुं बुधम् । सुवर्णप्राणसद्भक्तं सत्यवीरमहं भजे ॥ ५॥ सत्यात्मरचितां पञ्चपद्यीं यः पठतेऽनिशम् । ज्ञानभक्तिविरक्त्यादि…

हिमवान्कृता ईश्वरस्तुतिः

|| हिमवान्कृता ईश्वरस्तुतिः || दिक्चेल भालतिलकानल कालकाल व्यालेन्द्रमाल गरनील कराब्जशूल । लीलाकृताङ्ग निखिलागमतत्वमूल बालार्धगात्र मुनिबालकृतालबाल ॥ ९॥ तिग्मांशुशीतांशुजहव्यवाह- नेत्रोज्वलन्मदनकाय उमासहाय । भूदारदार नरसिह्मविदारणेश दैत्योरुसिन्धुरकटीतटचर्मवस्त्र ॥ १०॥ गङ्गातुङ्गजटोरुशेखर सुधाधामार्धखण्डोज्वल स्थूलापारद्विजिह्वहारवलय प्रोद्यज्झणन्नूपुर । उक्षेन्द्रोत्तमवाहनाव्यय हराधारोरुसंस्यन्दन (सत्स्यन्दन) सोमार्यम्णकचक्रकर्षण महाबाहार्ववेदोत्तम ॥ ११॥ शम्भो मे दिश भद्रमद्य दयया मां पाहि सर्वेश्वर पाथोजातभवोत्तमाङ्गहरणापारव्यथां संहर । पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताब्जाङ्घ्रिक (पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताजार्चित) भूधृग्धुर्यशरासनोरुविहितामौर्वी महीधारक (महाहारक) ॥…

देवीकृता ईश्वरस्तुतिः

|| देवीकृता ईश्वरस्तुतिः || पुरहर भगवन्कुरु करुणां (करुणां मयि) स्मरहर शङ्कर प्रभो । गरधर गुरुभरजगदुद्धारक मुरहरपूजितपाद ॥ ३७॥ गजहर यमहर भग मखहर (भगरदहर) हरिशर हर हरपाहि । अगपतिविलसितलिङ्गकुलान्तरभरितानेदकमोद ॥ ३८॥ परिफुल्लाम्बुजबिल्वालङ्कृत शशिधामोद्यतमौले । परिपाहीश्वर शङ्कर सुन्दर भक्तजनप्रिय शम्भो ॥ ३९॥ उद्यद्धिमकर(उद्यद्दिनकर)समसुमजाधिकमारवराङ्गकभूष । भसितालङ्कृतनिटिलालङ्कृतपुण्ड्रोत्तमपरिभूष ॥ ४०॥ चक्षुश्श्रवगणमणिगणकन्धर सोमार्यमानलाक्ष । तुरगायितनिगमाव्यय हर श्रुतिमौल्युद्य(द्धृ)तकीर्ते ॥ ४१॥ परिपाहीश्वर देव…

अरुणगिरिध्यानस्तुतिः

|| अरुणगिरिध्यानस्तुतिः || अरुणगिरिरिहेड्यः स्कन्द सत्कीर्तिसूक्ति प्रकटितनिजभक्तिः निस्पृहः शुद्धसत्वः । अनुदिनमगजातासूनुधामाटनोद्यद्- रतिरखिल सुपूज्यः साञ्जलिर्भूतिभूषः ॥ इति अरुणगिरिध्यानस्तुतिः समाप्ता ।

गौरीकृता अम्बिकेशशिवस्तुतिः

|| गौरीकृता अम्बिकेशशिवस्तुतिः || (अम्बिकेशशिवस्तुतिः) हर हर शङ्कर चन्द्रशेखर प्रमथाधीश्वर विश्वनाथ शम्भो । करुणारससारशोभिताङ्गाङ्गदकाहीश्वर देवदेव पाहि (देव पाहि पाहि) ॥ ५४॥ अम्बिकेश गगनातिगमौले लम्बितोरुजटयाखिलकाश । व्योमकेश विनतार्तिविनाश नागभूषणक (नागभूष नग) कार्मुकपाणे ॥ ५५॥ हरिबाणामलपद्मनेत्र शम्भो कृतदक्षाध्वरशिक्षवीक्षण । दग्धकामपुरवर्ग मदोद्यत्कुम्भिकुम्भदलनामलपाद ॥ ५६॥ गिरिराजसुता(सुतां)जटोरुबन्ध ह्यव (अव) मां घोरतपोभिरुग्रदेहाम् । भव भीमोग्र कपालमालजालिन्करशूलामलभूतिभूषिताङ्ग ॥ ५७॥ त्यद(त्वद)पाङ्गततिप्रभूतकामा किमिहेहामि तवावृतेर्ममाद्य…

श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः

|| श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः || श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशः भास्वद्भोगीन्द्रभूमीधरवरशिखरप्रान्तकेलीरसज्ञः । शश्वद्ब्रह्मेन्द्रवह्निप्रमुखसुरवराराध्यमानाङ्घ्रिपद्मः पायान्मां वेङ्कटेशः प्रणतजनमनःकामनाकल्पशाखी ॥ १॥ यस्मिन् विश्वं समस्तं चरमचरमिदं दृश्यते वृद्धिमेति भ्रश्यत्यन्ते च तादृग्विभवविलसितस्सोऽयमानन्दमूर्तिः । पद्मावासामुखाम्भोरुहमद धु मधुविद्विभ्रमोन्निद्रचेताः शश्वद्भूयाद्विनम्राखिलमुनिनिवहो भूयसे श्रेयसे मे ॥ २॥ वन्दे देवं महान्तं दरहसितलसद्वक्त्रचन्द्राभिरामं नव्योन्निद्रावदाताम्बुजरुचिरविशालेक्षणद्वन्द्वरम्यम् । राजन्मार्ताण्डतेजःप्रसितशुभमहाकौस्तुभोद्भास्युरस्कं शान्तं श्रीशङ्खचक्राद्यमलकरयुतं भव्यपीताम्बराढ्यम् ॥ ३॥ पायाद्विश्वस्य साक्षी प्रभुरखिलजगत्कारणं शाश्वतोऽयं पादप्रह्वाघराशिप्रशमननिभृताम्भोधरप्राभवो माम् । ब्यक्ताव्यक्तस्वरूपो दुरधिगमपदः प्राक्तनीनां च वाचां…

श्रीमधुरापुरीस्तुतिः

|| श्रीमधुरापुरीस्तुतिः || श्वेतद्वीपमधिष्ठिता सुविपुला सा सत्यलोकस्थिता चायोध्या च कुशस्थली मधुपुरीत्यत्युज्ज्वला निस्तुलाः । पञ्च श्रीकमितुः प्रपञ्चकुहरे पुर्यः स्फुरन्ति स्फुटं तासां मध्यगता विभाति मधुरा सा हन्त सर्वोत्तरा ॥ १॥ काञ्ची काशिपुरी च सा पुनरयोध्या सापि चावन्तिका मायाख्या च कुशस्थली मधुपुरीत्यत्यन्तपुण्योत्तराः । पुर्यः सप्त समुल्लसन्ति परितः क्षोणीतले तास्वहो मध्यस्था मधुरा विराजति सरोमध्ये यथाम्भोरुहम् ॥ २॥ वृन्दारण्यबृहद्वनं मधुवनं…

प्रेमवतीकृता श्रीहरिस्तुतिः

|| प्रेमवतीकृता श्रीहरिस्तुतिः || निगमागमगीतदिव्यकीर्ते करुणाद्याखिलसद्गुणैकधामन् । धृतमानुषनाटने कृपालो त्वयि नित्यं मनसो गतिर्ममास्तु ॥ १॥ वरवक्त्रवितर्जिताब्जशोभे शुभनासापरिभूतकीरचञ्चौ । सहचन्द्रकपुण्ड्रशोभिभाले त्वयि नित्यं मनसो गतिर्ममास्तु ॥ २॥ अमितात्महितार्थमत्र नाथ करुणाविष्कृतनैजदिव्यमूर्ते । अवितर्क्यमनोहरस्वरूपे त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ३॥ निजभक्तमदादिशत्रुहारिन् निजभक्ताखिलकष्टनाशकारिन् । निगमागमशास्त्रसारवक्तस्त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ४॥ शरणागतरक्ष यत्कथायाः श्रवणं च स्मरणं यदीयमूर्तेः । प्रपुनाति जनान् द्रुतं…

गोपालयोगिकृता श्रीहरिस्तुतिः

|| गोपालयोगिकृता श्रीहरिस्तुतिः || महातेजःपुञ्जस्फुरदमलसिंहासनवरे स्थितं सर्वाधीशं विमलतरतेजोमयतनुम् । भृशं धन्योऽहं त्वां दृशि समधिगम्याक्षर शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ १॥ यतः सर्वं जातं वियदनिलमुख्यं जगदिदं स्थितौ निःशेषं योऽवति निजसुखांशेन बहुधा । ये सर्वं स्वस्मिन् हरति कलया यस्तु स प्रभुः शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ २॥ असूनाम्यादौ यमनियममुख्यैः सुकरणै- निरुध्येदं…

अक्षरादिदेवकृता श्रीहरिस्तुतिः

|| अक्षरादिदेवकृता श्रीहरिस्तुतिः || सत्यप्रतिज्ञमविकारिणमादिदेवं गूढाशयं भयहरं विमलं परात्मन् । सच्चित्सुखं त्वभयदं परतः परञ्च त्वां धर्मदेवतनयं वयमानमामः ॥ १॥ जन्मादि चास्य जगतो भवतो यतो वै वेदैः सदाऽपरिमितादिगुणैर्विगीतम् । ध्यातं सदा मुनिवरैश्च समाधिनिष्ठे- स्त्वां धर्मदेवतनयं वयमानमामः ॥ २॥ सत्यव्रतं परमसत्यमचिन्त्यमाद्यं सत्यस्य योनिमथ सत्यपराक्रमञ्च । सत्यात्मकं त्रियुगसत्यपदं पुराणं त्वां धर्मदेवतनयं वयमानमामः ॥ ३॥ प्राकट्यमेतदिह नाथ वसुन्धरायां नैवास्ति…

देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः

|| देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः || देवक्युवाच । रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥ नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु । व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥ योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयां स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥ मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं…

सिद्धिलक्ष्मीस्तुतिः

|| सिद्धिलक्ष्मीस्तुतिः || आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् । सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥ याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया । लक्ष्मिर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भै- र्नित्यं…

बृहद्बलकृता शिवगिरिजास्तुतिः

|| बृहद्बलकृता शिवगिरिजास्तुतिः || सुरेश्वरं निरीश्वरं गिरीश्वरं नटेश्वरं महेश्वरं मयस्करं शिवं भजेय शङ्करम् । भुजङ्गराजहारकं सुमारमारहारकं महाविषाग्निधारकं भजे विमुक्तिदायकम् ॥ १॥ सुरारिवृन्ददुःखदं शुभाङ्गदं शुभास्पदं सुबद्धकर्ममोक्षदं भजे शिवं विमुक्तिदम् । विधीन्द्रविष्णुसन्मुखं महागिरीन्द्रजासखं धनेशमुख्यसत्सखं भजे शिवं मदुन्मुखम् ॥ २॥ उमापतिं सभापतिं दिशाम्पतिं पशोर्पतिं गिराम्पतिं पतेर्पतिं भजे शिवं दिवस्पतिम् ॥ ३॥ दन्वित्वक्परिधान शङ्कर महादेवेश मा मा जहि विभ्रन्मेरुशरासनं…

पार्वतीकृता शिवस्तुतिः ३

|| पार्वतीकृता शिवस्तुतिः ३ || (शिवरहस्यान्तर्गते सदाशिवाख्ये) पार्वती (उवाच) शम्भो रसालवरमूलग हस्तशूल व्यालाङ्गमाल जितकाल ललामसोम । गङ्गाविशालरयचुम्बि जटालवाल श्रीकण्ठमूल भजतामघहारशील ॥ ४०॥ एकाम्रमूलनिरयं भुजगाधिराज राजत्किरीटवलयं सदयं सदैव । अत्यन्तमेव भजमान जनान्तरङ्गे नृत्यन्तमाशु गिरिशं परिशीलयामि ॥ ४१॥ एकाम्रमूलनिलयं भजतामनेक जन्मार्जिताघविनिवारणकारणं तत् । तेजः श्रयामि शिवमद्य शिवेतराणां- निर्णोदनैकनिरतं भरितं जगत्याम् ॥ ४२॥ एकाम्रमूलनिलयाय दयालयाय संसारघोर वरुणालयतारणाय ।…

मत्स्यस्तुति

|| मत्स्यस्तुति || मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दौ अन्तर्लीने जलधिसलिले व्याकुले देवलोके । मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु ॥ १॥ वियत्पुच्छातुच्छोच्छलितजलगर्भं निधिरपां अपान्नाथः पाथः पृथुललवदुस्थो वियदभूत् । निधिर्भासामौर्वो दिनपतिरभूदौर्वदहनः चलत्काये यस्मिन्स जयति हरिर्मीनवपुषा ॥ २॥ जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटनात् उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः । यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं वपुः पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ ३॥ दिश्याद्वः…

Join WhatsApp Channel Download App