Download HinduNidhi App
Misc

श्री सुब्रह्मण्यहृदय स्तोत्रम्

Subrahridaya Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

|| श्री सुब्रह्मण्य हृदय स्तोत्रम् ||

॥ करन्यासः ॥

ॐ सुब्रह्मण्याय अङ्गुष्टाभ्यां नमः ।
षण्मुखाय तर्जनीभ्यां नमः ।
शक्तिधराय मध्यमाभ्यां नमः ।
षड्त्रिंशत्कोणाय अनामिकाभ्यां नमः ।
सर्वतोमुखाय कनिष्ठिकाभ्यां नमः ।
तारकान्तकाय करतल करपृष्ठाभ्यां नमः ॥

॥ हृदयादि न्यासः ॥

ॐ सुब्रह्मण्याय हृदयाय नमः ।
षण्मुखाय शिरसे स्वाहा ।
शक्तिधराय शिखायै वषट् ।
षड्त्रिंशत्कोणाय कवचाय हुम् ।
सर्वतोमुखाय अस्त्राय फट् ।
तारकान्तकाय भूर्भुवःसुवरोमिति दिग्बन्धः ॥

॥ ध्यानम् ॥

षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा
ध्यायामीप्सित सिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ॥

लमित्यादि पञ्चपूजा ।

सत्यलोके सदानन्दे मुनिभिः परिवेष्टितम् ।
पप्रच्छुर्मुनयः सर्वे ब्रह्माणं जगतां गुरुम् ॥

भगवन्सर्वलोकेश सर्वज्ञ कमलासन ।
सदानन्द ज्ञानमूर्ते सर्वभूतहिते रत ॥

बहुधा प्रोक्तमेतस्य गुहस्य चरितं महत् ।
हृदयं श्रोतुमिच्छामः तस्यैव क्रौञ्चभेदिनः ॥

ब्रह्मोवाच-

श‍ृण्वान्तु मुनयः सर्वे गुह्याद्गुह्यतरं महत् ।
सुब्रह्मण्यस्य हृदयं सर्वभूतहितोदयम् ॥

सर्वार्थसिद्धिदं पुण्यं सर्वकार्यैक साधनम् ।
धर्मार्थकामदं गुह्यं धनधान्यप्रवर्धनम् ॥

रहस्यमेतद्देवानां अदेयं यस्य कस्यचित् ।
सर्वमित्रकरं गोप्यं तेजोबलसमन्वितम् ॥

प्रवक्ष्यामि हितार्थं वः परितुष्टेन चेतसा ।
हृत्पद्मकर्णिकामध्ये ध्यायेत्सर्वमनोहरम् ॥

सुवर्णमण्टपन्दिव्यं रत्नतोरणराजितम् ।
रत्नस्तम्भ सहस्रैश्च शोभितं परमात्भुतम् ॥

परमानन्दनिलयं भास्वत्सूर्यसमप्रभम् ।
देवदानवगन्धर्वगरुडैर्यक्षकिन्नरैः । ॥

सेवार्थमागतैस्सिद्धैः साध्यैरध्युषितं सदा ।
महायोगीन्द्र संसेव्यं मन्दारतरुमण्डितम् ॥

माणिक्य विद्रुमैश्चैव महा श्रीभिरुञ्चितम् ।
तन्मध्येऽनन्तरत्नश्री जटामकुट शोभितम् ॥

रत्नसिंहासनं दिव्यं रविकोटिसमप्रभम् ।
सर्वाश्चर्यामयं पुण्यं सर्वरत्न परिष्कृतम् ॥

तन्मध्येष्टदलम्पद्मं उद्यत्सूर्या प्रभोदरम् ।
निगामागमरोलम्बं लम्बकं चित्स्वरूपिणिम् ॥

विद्या ज्योतिर्मयं दिव्यं देवताभिर्नमस्कृतम् ।
देदीप्यमाना रुचिभिर्विशाखं सुमनोहरम् ॥

तन्मध्ये सर्वलोकेशं ध्यायेत्सर्वाङ्गसुन्दरम् ।
अनन्तादित्यसङ्काश माश्रिताभीष्टदायकम् ॥

अचिन्त्यज्ञानविज्ञानतेजोबलसमार्जितम् ।
सर्वायुध धरं वीरं सर्वाश्चर्यामयं गुहम् ॥

महर्ह रत्नखचितं षट्किरीटविराजितम् ।
शशाङ्गार्ध कलारम्य समुद्यद्मौलिभूषणम् ॥

सम्पूर्ण चन्द्रसाहस्र समुद्यद्वदनोज्वलम् ।
विशाल फाल ललितं विलोलालक भूषणम् ॥

मदनोज्वल कोदण्ड मङ्गल भ्रू विराजितम् ।
विस्तीर्णरूपतेजसं विलसत्द्वादशेक्षणम् ॥

चारुश्रीवर्ण सम्पूर्ण कर्णशोभाभिभासुरम् ।
मणि प्रभा मयूर श्री स्फुरन्मकरकुण्डलम् ॥

लसत् दर्पण दर्पघ्न गण्डस्थल विराजितम् ।
नव्यकाञ्चन पुष्पश्री नासा पुटविराजितम् ॥

मन्दहास प्रभाजाल मधुराधर शोभितम् ।
सर्वलक्षण लक्ष्मीश कम्बुसुन्दर कन्धरम् ॥

महनीय महारत्न दिव्यहार विराजितम् ।
उदग्रनाग केयूर सन्नद्धशुभकुण्डलम् ॥

रत्नकङ्कण संशोभि कराग्र श्रीमहोज्वलम् ।
महामाणिक्य पर्यङ्क वक्षस्थल विराजितम् ॥

समस्त जगदाधारं स्वर्णवर्णशुभोदरम् ।
अतिगाम्भीर्य सम्भाव्य नाभीनव सरोरुहम् ॥

रत्नश‍ृङ्खलिका बन्धलसन्मध्यप्रदेशिकम् ।
कनत् कनक संवीत पीताम्बरसमावृतम् ॥

श‍ृङ्गाररस सम्पूर्ण रत्नस्तम्भोपमोरुकम् ।
रत्नमञ्जीर सन्नद्ध मणिदीप पदाम्बुजम् ॥

भक्ताभीष्टप्रदं देवं ब्रह्मविष्ण्वादिसंस्तुतम् ।
कटकाक्षवीक्षणैः स्निग्धस्तोषयत्नञ्जगत्पतिम् ॥

सदानन्दं ज्ञानमूर्तिं सर्वलोकप्रियङ्करम् ।
शङ्करं सात्मजं देवं ध्यायेत् शरवणोत्भवम् ॥

अनतादिव्यचन्द्राग्नि तेजसम्पूर्णविग्रहम् ।
सर्वलोकवनरतं सर्वतत्वाद्य तत्त्वगम् ॥

सर्वेश्वरं सर्वविभुं सर्वभूतहितेरतम् ।
एवञ्जपित्वा हृदयं षण्मुखस्यमहात्मनः ॥

सर्वान् कामानवाप्नोति सम्यज्ञानङ्चविन्दति ।
शुचौ देवशे समासीनः शुद्धात्मा च कृताह्निकः ॥

प्राङ्मुखौ यतचित्तश्च जपेद्-हृदयमुत्तमम् ।
सकृदेततन्मनन्जप्त्वा सम्प्राप्नोत्यखिलं शुभम् ॥

सर्वाघहरणं मॄत्युदारिद्रस्यचनाशनम् ।
सर्व सम्पत्करम्पुण्यं सर्वरोग निवारणम् ॥

सर्व शर्म करं दिव्यं सर्वाभीष्टार्थदायकम् ।
सर्वकामप्रदं गुह्यं अपवर्गैक कारणम् ॥

प्रजाकरं राज्यकरं भाग्यदं बहुपुण्यदम् ।
गुह्यात् गुह्यतरं भूयो देवानामपि दुर्लभा ॥

इदन्तुनातपस्काय नाभक्ताय कदाचन ।
नचा शूश्रूषवेदेयं मदान्धायनकर्हिचित् ॥

सच्छिष्याय सुशीलाय स्कन्दभक्तिरतायच ।
सर्वदाभिरतायेदं दातव्यं जयवर्धनम् ॥

॥ इति श्री सुब्रह्मण्यहृदयस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री सुब्रह्मण्यहृदय स्तोत्रम् PDF

श्री सुब्रह्मण्यहृदय स्तोत्रम् PDF

Leave a Comment